________________
तदेवं संसारस्य दुःखात्मकतां शरीरस्याशुचितां च परिभाव्य धर्मध्यानमेव ध्यायेत, तच लोकस्वभावमेव भावयतो भवतीति सप्तमी लोकस्वभावभावनामभिधित्सुराह--
चउदसरज्जू उड़ायओ इमो वित्थरेण पुण लोगो।
कत्थइ रज्जु कत्थ वि य दोन्नि जा सत्त रज्जूओ ॥४२६॥ सप्तमनरकपृथिव्या अधस्तलादारभ्योर्ध्वायतो-दीर्घोऽसौ लोकश्चतुर्दशरज्जुको भवति, विस्तरेण el पुनः क्वापि तिर्यग्लोके सिद्धिक्षेत्रप्रदेशे चैकरज्जुर्भवति, क्वचित्तु रज्जुद्वयं त्रयं यावत् सप्तमनरक
पृथिव्यां विस्तरेण सप्त रजवो भवन्तीति ॥ यदि नामैवं प्रमाणो लोकः ततः किमित्याह-- निरयावाससुरालयअसंखदीवोदहीहिं कलियस्स । तस्स सहावं चिंतेज धम्मझाणत्थमुवउत्तो ॥ ____प्रकटाथै व ॥ तदेवमेकेन प्रकारेण लोकस्वभावभावना प्रोक्ता, अथ प्रकारान्तरेण तामभिधित्सुराह--
अहवा लोगसभावं भावेज भवंतरम्मि मरिऊण । जणणी वि हवइ धूया धूया वि हु गेहिणी होइ ॥४२८॥