________________
इय खणपरियत्तते पोग्गलनिवहे तमेव इह वत्थु । मन्नामि सुहं पवरं जं जिणधम्मम्मि उवयरइ ॥ | इति-उक्तन्यायेन सर्वस्मिन्नपि पुद्गलनिवहे प्रतिक्षणं परावर्त्तमाने शुभे कर्पूरहारताम्बूलादौ देहादिसम्बन्धादशुभतां प्रतिपद्यमाने अशुभेऽपि मदनकोद्रवादी शुभतामासादयति किं शुचिरूपं ? किं चाप्यशुच्यात्मकं? व्यपदिश्यतामितिशेषः। तत् किं सर्वथा किंचिदपि वस्तु शुचितया अत्र न व्यपदेष्टव्यमित्याशंक्याह-'तमेवे'त्यादि, तदेवेह वस्तु शुचिस्वरूपं प्रधानं चाहं मन्ये यत् साधुदेहादिकं कुसुमविलेपनवस्त्राभरणादिकं च जिनधर्मे-क्षान्त्यादिके जिनपूजादानशीलादिके चोपकुरुते, नान्यत् , तस्य सर्वस्यापि पापोपकारितया नरकादिभवहेतुत्वेन तत्त्वतोऽशुचिस्वरूपत्वादिति ॥ ___ यतश्चैवं तस्मादुदाहरणगर्भ कृत्योपदेशमाह--- है तो मुत्तूण दुगुंछं उम्मायकर कयंबविप्प ब्व । देहं च बज्झवत्थं च कुणह उवयारयं धम्मे ॥४२५॥
यस्मात्तदेव वस्तु शुचिस्वरूपं प्रधानं च यजिनधर्मे उपकरोति शेषं तु सर्वमशुच्येव वर्तते, तस्मा| दुन्मादिकारिणी जुगुप्सां मुक्त्वा कदम्बविप्र इव देहं बाह्यवस्तु च-वस्त्रविलेपनादिकं जिनधर्मोपकारकं कुर्विति ॥ का पुनरसौ कदम्बविप्र ? इति उच्यते
॥ ३३७॥