________________
भवभावना प्रकरण
वस्तूनां
वत्थाहारविलेवणतंबोलाईणि पवरदव्वाणि । होति खणेण वि असुईणि देहसंबन्धपत्ताणि ॥४२२॥ ४ देह
सम्बन्ध____ सुगमा ॥ तदेवं विपर्यस्तो लोकस्तैलजलागरुकपूरकुसुमकुंकुममलयजरसताम्बूलवस्त्राभरणादिभिः ।
प्राप्तानां संस्कृतं यच्छरीरं शुचित्वेनाध्यवस्यति तत्र तात्त्विकमशुचिस्वरूपत्वमुपदर्शितं । यान्यप्यवघसरामेश्यमृतकाद्याधारतडागजलादीन्यशुचिरूपाणि लोको मन्यते तान्यपि संस्कारवशात् शुभत्वं प्रतिपद्यन्त अशुचित्वइति दर्शयति
वर्णनम् असुहाणि वि जलकोदववत्थप्पमुहाणि सयलवत्थूणि ।
सकारवसेण सुहाई होंति कत्थइ खणदेणं ॥४२३॥ इहाशुभं जलं माघमासीयनूतनकरककर्करीप्रमुखभाजनेषु कतकफलादिना संस्कृतं क्रमेण सकलजनस्पृहणीयतां प्रतिपद्यते, मदनकोद्रवा अपि भक्षिता ये. सद्य एव मानुषं घारयंति तेऽप्यौषधादिसंस्कृतास्तत्क्षण एव शुभस्वादुरसत्वं प्रतिपद्यन्ते, वस्त्रमप्यतीव मलमलिनं खंजनादिभृतं रजकादिना संस्कृतं अगित्येव शुभत्वमुपगच्छति, एवं भवनशयनादिष्वपि वक्तव्यमिति । ततः किमित्याह