________________
उक्तमानाच शुक्रशोणितादेर्यत्र हीनाधिक्यं भवति तत्र वातादिदूषितत्वेनेत्यवसेयमिति ॥ श्रोत्राणि शरीरे यावन्ति भवन्ति तावन्त्युपदश्यपसंहरति
एक्कारस इत्थीए नव सोयाई तु होंति पुरिसस्स । इय किं सुइत्तणं अद्विमंसमलरुहिरसंघाए ? ॥
athi द्वे चक्षुषी द्वे घाणविवरे मुखं स्तनौ पायूपस्थे चेत्येवमेकादश श्रोत्राणि स्त्रिया भवन्ति, स्तनवणि शेषाणि नव पुरुषस्य । इत्येवमस्थ्यादिसंघातरूपे शरीरे किं नाम स्वरूपतः शुचित्वं ?, न किंचिदित्यर्थः ॥ यदि नाम शरीरं स्वरूपतः केवलाशुचिवस्तुसंघातरूपं ततः किमित्याह-
को काययक्खे किमकुलवासे य वाहिखित्ते य । देहम्मि मच्चुविहुरे सुसाणठाणे य पडिबंधो ? ॥१२१॥
ततो जिनवचनवासितान्तःकरणानां देहे कः प्रतिबन्धः स्यात् ?, न कश्चिदित्यर्थः । कथम्भूते देहे ? इत्याह-- काककुकुरादिभच्ये केवलकृमिकुलावासे समस्तव्याधिक्षेत्रे मृत्यु विधुरे - मरणावस्थायां निःशेषकार्य करणाक्षमे पर्यन्ते श्मशाने स्थानं यस्य तत्तथा तस्मिश्चैवंभूत इति । एवं च नाम देहस्याशुचित्वं येन तत्सम्बन्धे अन्यतुभमपि वस्तु अशुचित्वं प्रतिपद्यत इति दर्शयति
॥ ३३५ ॥