________________
भव
भावना
प्रकरणे
सो नत्थि पएसो तिहुयणम्मि तिलतुसतिभागमेत्तोऽवि । जाओ न जत्थ जीवो चुलसीईजोणिलक्खेसु ॥४००॥
स प्रदेशस्त्रिभुवने तिलतुषत्रिभागमात्रोऽपि नास्ति यत्रायं जीवश्चतुरशीतियोनिलत्तेषु प्रत्येकम् अनन्तानन्तवारा नोत्पन्नः, चतुरशीतियोनिलक्षा एवमवगन्तव्याः, तद्यथा - पुढ विदगअगणिमारुय एकेके सत्त जोणिलक्खाओ । वण पत्तेयअणते दसचउदस जोणिलक्खाओ ॥१॥ विगलिंदिएस दो दो चउरो चउरो य नारयसुरेसु । पंचिदितिरिय चउरो चउदसलक्खा य मणुए ||२॥ किंचसव्वाणि सव्वलोए अणंतखुत्तो वि रूविदव्वाईं । देहोवक्खरपरिभोयभोयणत्तेण भुत्ताईं ॥ ४०१ ॥
इहानादी संसारचक्रे चतसृष्वपि गतिष्वनन्तशः पर्यटता जीवेन सर्वस्मिन्नपि लोके यानि कानि - चित् सर्वाण्यपि द्रव्याणि समस्त पुद्गला स्तिकायात्मकानि तान्यनन्तकृत्वः अनन्तानन्तवारा एकैकजीवेन भुक्तानि कथमित्याह - 'देहोवक्खरे' त्यादि, देहत्वेन शरीरतया परिणमय्य भुक्तानि, तथा उपस्करःशय्यासन भाजनादिस्नद्भावेन, तथा परिभुज्यत इति परिभोगो-वस्त्रसुवर्णवनितावाहनादिस्तद्रूपेण, तथा भोजनं - अशनखादिमादि तदात्मना चानन्तशः परिभुक्तानीति ॥ यद्यपि च रूपद्रव्याणि
सर्वजीवैः सर्वलोके
सर्व
द्रव्याणा
मनन्त
कृत्वः भोगः
॥ ३२८ ॥