________________
सर्वाण्यप्यनन्तशो जीवन परिभुक्तानि तथाऽपि मोहनीयादिकर्मोदयात् कुतश्चित प्रतिभवं सर्वमेव All नूतनं मन्यते, न तु तृप्ति बजतीति दर्शयति
मयरहरो व्व जलेहिं तह वि हु दुप्पूरओ इमो अप्पा ।
विसयामिसम्मि गिद्धो भवे भवे वच्चइ न तत्तिं ॥४०२॥ गतार्थैव ॥ अथ प्रासंगिकमुपसंहरन्नुपदेशतात्पर्यमाह
इय भुत्तं विसयसुहं दुहं च तप्पच्चयं अणंतगुणं ।
इण्हि भवदुहदलणम्मि जीव ! उज्जमसु जिणधम्मे ॥४०३॥ इत्येवमुक्तप्रकारेण भुक्तं तावत् सर्वमपि विषयसुखं, तत्प्रत्ययं-विषयसुखोपभोगहेतुकं दुःखं | च नरकादिषु विषयसुखादनन्तगुणं भुक्तं, तद्यदि जीव ! दुःखेषु निर्वेदः कोऽपि तवास्ति तदिदानी समस्तभवदुःखदलनसमर्थे जिनधर्म एवोद्यम कुर्विति । तदेमवसितं प्रासंगिकमपि, तदवसाने च चतुर्गतिभवस्वरूपभावनात्मिका ॥ पंचमी संसारभावना समाप्तेति ॥
॥ इति संसारभावना ॥
॥ ३२९ ॥