________________
॥ दुःखे किल का शंका ?, न काचिदित्यर्थः । स्यादेतत्-मिथ्यावृष्टिदेवाः पुरतो दारिद्रयभर गर्दभीगभीत्पत्त्यादिकं वा दृष्ट्वा भवन्तु दुःखिताः, सम्यग्दृष्टयस्तु चक्रवर्त्यादिकुलेषूत्पद्यन्तेऽतस्तेषां कुत एतदोषसम्भव इत्याशंक्याऽऽहसम्मविट्ठीण वि गभवासपमुहं दुहं धुवं चेव । हिंडंति भवमणंतं च केइ गोसालयसरिच्छा ॥३६७ ___ यद्यपि सम्यग्दृष्टयः प्रायेण हीनस्थानेषु नोत्पद्यन्ते तथाऽपि गर्भवासप्रमुखं दुःखं तेषामप्यवस्थितमेव, किंच-सम्यग्दृष्टयोऽपि गोशालकसदृशाः सम्यक्त्वं वान्त्वा ततश्च्युताः केचिदुपार्द्धपुद्गलपरावर्त्तलक्षणमनन्तं संसारं पर्यटन्ति, तत्र चानन्तदुःखमनुभवन्ति, यस्य च सुखस्यान्ते एतावदुःखमनुभूयते | तत् कथं सुखमुच्यते ?; उक्तं च-"कह तं भन्नइ सोक्खं सुचिरेण वि जस्स दुकखमल्लियइ ? । जं च मरणावसाणे भवसंसाराणुबंधं च ॥१॥” कः पुनरसौ गोशालक इति ?, उच्यते-श्रीमन्महावीरस्य कुशिष्यतयाऽसौ प्रसिद्ध एव, केवलं विस्मरणशीलानां स्मृत्याधानाय किंचित्तच्चरितमुच्यतेसिरिवद्धमाणसामी वयगहणाओ जया य बीयम्मि | वरिसम्मि विहरमाणो सिरिरायगिहस्स नयरस्स ।। नालंदं याहिरयं गंतूणं तंतुवायसालाए । चिट्ठइ वासारत्ते मासक्खमणं पवजेउं ॥२॥
॥ ३१९ ॥