________________
गन्धद्रव्याणि गृहीत्वा तुवरादिभिः सह मिश्रयन्तीति सूत्रसंक्षेपार्थः ॥ इह च सूचकत्वात् सूत्रस्यायमभिषेकाहजलादिवस्तुक्रमो दृष्टः, तद्यथा-स्वभाविकवैक्रियमणिरत्नसुवर्णादिमयकलशभंगारान् गृहीत्वा आभियोगिकदेवाःक्षीरोदधौ गत्वा जलं पद्मजातिविशेषांश्च सर्वान् गृहन्ति, एवं पुष्करोदसमुद्रेऽपि, ततः समयक्षेत्रे भरतैरवतेषु गत्वा मागधादितीर्थजलानि मृत्तिकां च गृहन्ति, ततो गंगासिन्धुरक्तारक्तवतीसरितामुभयतटमृत्तिकां सलिलं च गृह्णन्ति, ततो हिमवच्छिखरिपर्वतेषु सर्वाण्यपि तुवरद्रव्याणि गन्धद्रव्याणि माल्यानि सर्वोषधीः सिद्धार्थाश्च गृह्णन्ति, ततः पद्महद
पौण्डरीकहदेषु जलानि पद्मजातिविशेषान् च गृह्णन्ति, ततो हैमवतैरण्यवतेषु रोहितारोहित . सुवर्णकूलारूप्यकूलासरितां जलानि मृत्तिकां च गृह्णन्ति, ततः शब्दापातिनि माल्यवति वृत्तवैताढ्ये | | तुवरादीनि, ततो महाहिमवदूक्मिपर्वतेषु अपि तुवरादीनि, ततो महापद्ममहापौण्डरीकहदेषु पद्मजातिसहितादीनि जलानि, ततो हरिवर्षरम्यकेषु हरिद्धरिकान्तानरकान्तानारीकान्तानदीनां | सलिलं मृत्तिकां च, ततो विकटापातिनि गंधापातिनि च वृत्तवैताढ्ये तुवरादीनि, ततो निषधनीलवत्पर्वतेषु तुवरादीनि, ततस्तिगिच्छिकेशरिहदेषु पद्मजात्यन्वितजलानि, पूर्व विदेहापरविदेहेषु शीताशीतोदामहानदीनां सलिलं मृत्तिकां च, ततो विजयाश्रितमागधादितीर्थानामन्तरसरितां च जलं मृत्तिकां च, ततः सर्ववक्षस्कारपर्वतेषु मेरौ च भद्रशालवने तुवरा
।