________________
देवाना
भवभावना प्रकरण
मभिषेक विधिवर्णनम्
नंदणवणम्मि गोसीसचंदणं सुमणदाम सोमणसे । पंडगवणम्मि गंधा तुवराईणि य विमीसंति ।। ___ पाठसिद्धा एव । नवरं मागधवरदामप्रभासतीर्थतोयानि मृत्तिकां च, समयक्षेत्रे-अर्द्धतृतीयद्वीपसमुद्रलक्षणे पंचसु भरतेषु पंचस्वैरवतेषु गत्वा गृह्णन्ति, ततः पंचसु भरतेषु गंगासिन्धुसरितां, आदिशब्दात् पंचस्वैरवतेषु रक्तारक्तवतीसरितां, तथाऽपरासामपि सकलानां हैमवतैरण्यवतादिक्षेत्रवर्तिनीनां रोहितारोहितांशासुवर्णकूलारूप्यकुलादीनां महानदीनामुभयतटवर्तिनीं मृत्तिकां जलानि च गृह्णन्ति, गङ्गासिंधुरक्तारक्तवतीसरिन्मृत्तिकाजलग्रहणानन्तरं च क्षुल्लकहिमवच्छिखरिपर्वतमुखेषु कुलगिरीन्द्रेषु गत्वा सर्वाणि माल्यानि-कुसुमानि सर्वान् गन्धद्रव्यविशेषरूपान् गन्धान सिद्धार्थान् -सर्षपान्. तथा सर्वा औषधी:-सुगन्धिम'हलयागन्धिपर्णकादिरूपाः तथा सर्वाण्यपि तुवराणि-शरीरस्निग्धत्वापनोदाय सुगन्धिकषायद्रव्याणि गृह्णन्ति इत्युत्तरगाथायां सम्बन्धः, एवं चतुषु वृत्तवैताढयशैलशिखरेष्वपि गत्वा तुवरादीनि गृह्णन्ति, तथा महाविदेहपंचकविजयेषु यानि मागधादितीर्थानि तेषु सलिलं मृत्तिका च गृह्णन्ति, तथा विजयान्तरवर्तिनदीनां सलिलमुपनयन्ति ततो वक्षस्कारगिरिषु भद्रशालवने च तुवरादीनि गृहन्ति, ततो नन्दनवनसौमनसपण्डकवनेषु क्रमेण तुवरादीनि सरसं गोशीर्ष श्रीखण्डं च गृह्णन्ति, सौमनसे विशेषतः सरससुरभिकुसुमदामग्रहणं कुर्वन्ति, पण्डकवने तु सुरभिगन्धान्वितानि १. हलकय-वा०॥