________________
इत्यादीति चेत् सत्यं, भवत्येवं सोपक्रमब्याधीनां, निरूपक्रमरोगाणां तु कदर्धनैवातिरिच्यते, नान्यत् फलं, अत एवेह व्याधीनां निरुपायता विशेषणं कृतं, तस्मान्नेह स्वजना अपि शरणमिति ॥ विभवस्तर्हि शरणं भविष्यतीत्याहविहवीण दरिहाण य सकम्मसंजणियरोयतवियाणं । कंदताण सदुक्खं को णु विसेसो असरणत्ते ?। ____ गताथैव, नवरमत्राप्यौपसर्गिकरोगे विभवात् स्यादप्युपकार इति स्वकर्मसंजनितत्वविशेषणमिति ॥ अथोदाहरणद्वारेण रोगाशरणत्वं दर्शयतितह रजं तह विहवो तह चउरंगं बलं तहा सयणा। कोसंबिपुरीराया न रक्खिओ तह वि रोगाण।
तथा' शब्दः सर्वत्रातिशयख्यापनपरो द्रष्टव्यः, शेषस्त्वक्षरार्थः सुगमो, भावार्थस्तु कथानकादुच्यते, तच्चेदम्इह चेव भरहवासे एत्थेव य मभिमम्मि खंडम्मि | पुवदिसाए विजइ जउणानइसंगसोहिल्ला ।
कोसंबी नाम पुरी छुहसुसियाई निवाण वि घराई।
जीइ न नजइ संखा अहव घरे कस्स वि सिरीए ॥२॥ राया य चंदसेणो तीसे आखंडलो व्व सुपसिद्धो। कयदाणवारिहरिसो विवुहपिओ विहियगुरुसेवो
॥३॥