________________
सुगमा ॥ ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं जीवः किं न स्मरति ? इत्याह-- | जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥२७४
जायमानस्य हि जीवस्य योनियंत्रनिष्पीडितस्य तावत्तीनं दुःखमुत्पद्यते, तथा प्रायो म्रियमाणस्यापि, तेन दुःखेन तथा उपलक्षणत्वाद् गर्भवासदुःखेन च मूछितो-ज्ञानावरणादिकर्मोदयवशवर्ती प्राक्तनभवसम्बन्धिनी 'जाति' जन्म न स्मरति जीवः । ननु य एते पुत्रादयो जायमाना दृश्यन्ते ते किं गर्भेऽपि व्यवस्थिताः तद्भावेन ज्ञायन्ते आहोश्चिन्न ? इति अत्रोच्यते, ज्ञायन्ते, कथमिति चेदागमात् , कथंभूतादित्याह
दाहिणकुच्छीवसिओ पुत्तो वामाए पुण हवइ धूया।
उभयंतरम्मि वसिओ नपुंसओ जायए जीवो ॥२७५।। सुगमा ॥ जातस्तर्हि बालः सुखी भविष्यतीत्याह
छुहियं पिवासियं वा वाहिग्घत्थं च अत्तयं कहिउँ । बालत्तणम्मि न तरइ गमइ रुयंतो च्चिय वराओ ॥२७६।।
||॥ २१९ ॥