________________
तथा उत्कृष्टतां नवानां पितृशतानामेकः पुत्रो जायते । एतदुक्तं भवति - कस्याश्चिद् दृढसंहननायाः कामातुरायाच योषितो यदा द्वादशमुहूर्त्तमध्ये उत्कृष्टो नवभिः पुरुषशतैः सह संगो भवति तदा तद्वीजे यः पुत्रो जायते स नवानां पितृशतानां पुत्रो भवति ॥ गर्भादपि केचिज्जीवा नरकं गच्छन्ति केचित् पुनर्देवलोकमिति दर्शयति - गतार्था, नवरं पूर्वंभविकवैक्रियलब्धिसम्पन्नः कोऽपि राजपत्न्यादिगर्भे समुत्पन्नः प्रौढतां च प्राप्तः परचक्रमागतं श्रुत्वा गर्भ एव व्यवस्थितो बहिर्जीवप्रदेशान्निष्कास्य वैक्रियकरितुरगरथपदातीन् विधाय संग्रामं कृत्वा रौद्राध्यवसायसम्पन्नो गर्भादपि मृत्वा नरकं याति । कश्चित् पुनर्मातुर्मुनिसमीपे धर्मश्रवणं कुर्वत्याः तद्गर्भे स्थितो धर्मं श्रुत्वा शुभाध्यवसायसम्पन्न एवं मृत्वा देवलोकं गच्छतीति ॥ नन्वेकस्याः स्त्रिया गर्भे उत्कृष्टतो ये नव लक्षा जीवानामुत्पद्यंते तेषु कियन्तो निष्पद्यन्ते कियन्तश्च तत्रैव म्रियन्त इत्याह- व्याख्याताथैव ॥ कथं पुनर्गर्भे जीवस्तिष्ठतीत्याहप्रकटार्थाः ॥ कियद्दुःखं पुनर्गर्भे भवतीत्याह - वृद्धपुरुषस्याग्निवर्णतप्तायः सूचिभिर्निरन्तरं भिद्यमानस्य यादृशं दुःखमुत्पद्यते तस्मात् गर्भस्थितजीवस्याष्टगुणं भवति व्यवहारदेशना चेयं निश्चयतस्तु ततोऽधिकमूनं वा भवतीति ॥ गर्भदुःखान्येवाधिकृत्यात्मानुशास्तिमाह [ इतः प्राक् "गन्भाओ १. 'त् तु देव - सर्वासु ॥
॥ २१३ ॥