________________
भव- भावना प्रकरणे
केन क्रमेण शरीरं निष्पद्यत इत्याह-'सत्ते'त्यादि,सप्ताहोरात्राणि यावत् कललं शुक्रशोणितसमुदायमानं, गर्भाभवति । ततः सप्ताहोरात्राण्यवि॒दं भवति, ते एव शुक्रशोणिते किंचित्स्त्यानीभूतत्वं प्रतिपद्यते इत्यर्थः। * गमनततोऽपि चार्बुदात् पेसी-मांसपिण्डिकारूपा भवति, तस्याश्चानन्तरं धन-समचतुरस्र मांसखण्डं | समयात् भवति । इह च तत् शुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे मगधादेशप्रसिद्धं पलं कर्षानं शरार
निष्पाभवति, त्रयः कर्षा भवन्तीत्यर्थः । द्वितीये मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरस्रं ६
दनक्रमः मांसखण्डं जायत इत्यर्थः । तृतीये तु मासे मातुः दौहृदं जनयति । शेषं सुगमं, यावन्नवनवतिलक्षाणि : रोमकूपानां भवन्ति, श्मश्रुकेशैविना, तैस्तु सह सा स्तिस्रः कोट्यो रोमकूपानां जायते । अष्टमे तु है.' मासे शरीरमाश्रित्य निष्पन्नप्रायो जीवो भवति । शुक्रशोणितसमुदाय ओज उच्यते, तस्यौजस - आहारः ओज आहारः, आदिशब्दालोमाहारादिपरिग्रहः, तैः सर्वैरप्याहारैः समग्रमपि शरीरं करोति ।
गर्भगतश्च जीवः सार्द्धसप्तसप्तत्यधिके द्वे अहोरात्रशते वसति, सार्द्धसप्तदिनाधिकान्नव मासान यावद् वसतीत्यर्थः ॥ कियन्तः पुनर्जीवाः एकस्याः स्त्रिया गर्भे एकहेलयैवोत्पद्यन्ते ?, कियतां च पितृणामेकः पुत्री भवतीत्याह | एकस्याः स्त्रिया गर्भ जघन्यतः एको द्वौत्रयो वा उत्कृष्टतस्तु नव लक्षाणि जीवानामुत्पद्यन्ते, निष्पत्तिं प्राय एको द्वौ वा गच्छतः, शेषास्तु स्वल्पं जीवित्वा तत एव म्रियन्ते । ॥ २१२॥