________________
गभदुहाई दटुं जाईसरणेण नायसुरजम्मो । सिरितिलयइन्भतणओ अभिग्गहं कुणइ गभत्थो । ___मनुष्या द्विविधाः-कर्मभूमिजा अकर्मभूमिजाश्च । कर्मभूमिजा भरतपंचकैरवतपंचकमहाविदेहपंचकभेदात् पंचदशविधाः, पुनरप्यार्यानार्यादिभेदतो द्विविधादिका द्रष्टव्याः । अकर्ममूमिजा अपि हैमवतपंचकहरिवर्षपंचकरम्यकपंचकहैरण्यवतपंचकदेवकुरुत्तरकुरूपंचकभेदात् त्रिंशद्विधाः, षट्पंचाशदन्तरद्वीपभेदभिन्नाश्च । एवं संमूर्च्छजगर्भजपर्याप्तापर्याप्तादयोऽपि समयोक्ता भेदा द्रष्टव्याः, इत्येवं तावदनेकविधा मनुष्या भवन्ति, तेषामपि चिंतय सम्यक् स्वरूपं यदि परमार्थतः किमपि सौख्यमस्तीति ॥ क विषये पुनरमीषां स्वरूपं चिन्तनीयमित्याह-पाठसिद्धा ।। तत्र गर्भावस्थास्वरूपं विस्तरतः स्वयमेवाह-'मोहे'त्यादि,मोहो-मोहनीयं कर्म स एव नृपो--राजा मोहनृपः, | उपलक्षणं चैतन्नामादिकर्मणः तेन मोहनृपेण निबिडं यथा भवत्येवं रागद्वेषस्नेहमनुष्यगतिमनुष्यानु| पूांदिवन्धनैर्बद्धो-नियंत्रितः, कुतोऽपि नरकतिर्यगादिगतिभ्यः समाकृष्यानात्मवशश्चौर इव
चारकगृहेऽशुचिस्वरूपे गर्भे क्षिप्यते जीव इति ॥ गर्भोत्पन्नः किमाहारयतीत्याह-'सुक्के'त्यादि,तच्च तदुभयं च तदुभयं-शुक्रशोणितलक्षणं संसृष्टं-मिलितं तत्र गर्भे उत्पन्नो जन्तुरभ्यवहरति । कयेत्याह-तच्च तत् प्रथमं च तत्प्रथमं तद्भावस्तत्ता तया तत्प्रथमतया, प्रथममुत्पन्न इत्यर्थः ॥ ततः