________________
तत्रोत्पत्तिक्रमः, प्राथमिक देवकृत्यं, विशिष्टसुखसाधनानि, देवत्वे श्रीतीर्थकरसमवसरणवैयावृत्त्यादि सारमित्यादि प्रतिपाद्य देवानां विषादेामात्सर्यवियोगादिदुःखानि निरूपितानि । छद्मस्थसंयमदेशविरत्यकामनिर्जराबालतपआदयो देवगतिहेतव इत्यस्य प्रतिपादने प्रतिहेतु दृष्टान्तमुपदर्शयता, बालतपसा देवत्वं प्राप्तस्य तामलितापसस्य चरित्रे 'एवइएणं अन्ने जीवा सिझंति जिणमए निरया (अट्ठ) । जावइयं तामलिणा विहियं किर बालतवकळं' इति गाथया शुद्धाशयस्य शुद्धविधेश्च महत्त्वं यदभिहित तन्निरन्तरं स्मरणाहम् । एवश्च दु खरूपं दु खहेतुकं दुःखानुबन्धि भवरवरूपं परिभाब्य षष्ठीमशुचित्वभावनां | परिभावयता सर्वजनप्रतीतं शरीराशुचित्वं प्रदर्श्य 'इयखणपरियत्तंते . .. ॥४२४॥' इति गाथया श्रीजिनधर्मप्रसाधनोपकारकवस्तुन एवं शुचित्वमभिहितम् । तदनन्तरं लोकस्य पञ्चारितकायमयत्वेन, केवलज्ञानिभिरवलोक्यत इति कृत्वा लोकस्य संसाररूपत्वेन च द्विविधा लोकस्वरूपभावना धर्मध्यानस्थैर्याय भाविता । धर्मध्यानार्थमेव भावनीयामष्टभीमाश्रवभावनामभिदधता 'मायालोभकषायमिश्रपरिणामो रागः, क्रोधमान मिश्रपरिणतिषः, पंचेन्द्रियाणि हिंसालीकभाषणचौर्यमैथुनपरिग्रहरात्रिभोजनमिथ्यात्वाविरतियोगा, एतानि सर्वाण्यपि कर्मण आश्रवद्वाराणीति संवेगवासितान्तःकरणेन मुमुक्षुणा संसारक्लेशविसरविच्छेदाय भावनीयमित्युक्त्वा रागादयो यथा कश्रिवणे निमित्तानि भवन्ति तथा सदृष्टान्तं भाविताः । भावितेष्वाभवेषु तन्निरोधिनी नवमी संवरभावनां निरूपयताऽऽश्रवद्वाराणां निरोधनायेन्द्रियाणामप्रशस्त विषयाणां निरोधे जायमानः कषायनिरोध एवोपायः । तेनैवापथ्याहारनिपेधेन रोगा इव सर्वेऽप्याश्रवा मूलत एव निरुध्यन्त इति स्पष्टमावेदितम् । इत्थञ्च संवरेण नव्यकर्मबन्धनिरोधे चिरबद्धसत्तान्तर्वतिकर्मणो निर्जरायै दशम्या निर्जराभावनायां. तद्धेतुभूतास्तपोविशेषा भाविताः । स्पष्टमेवास्या भावनायाः परिभावने चिरसंचितानां पापकर्मणां निर्जरया मोक्षप्राप्ति
|| सत्सर॥