________________
प्रस्तावना
प्रकरणे
भव-80
स्तदर्था चैव तपोविशेषाणां प्रवृत्तिरिति प्रतिपादितं ग्रन्थकृता । अन्यत्राऽपि तपोविधायकशास्त्रेषु तपसा क्लिष्टकर्मभावना निर्जरया मोक्षप्राप्तिरेव निरूपिता । केचिदुपदेशकादयः संसारसुखार्थमिदानी तपआदिधर्मामुपदिशन्ति । शास्त्रप्रसिद्ध
पुण्यपुरुषाणां दृष्टान्तैश्च "धर्मस्य संसारसुखेच्छयाऽपि विधाने न कश्चिद् दोषलेशोऽपीति" निरूपयन्तः "संसारसुखार्थं यदि धर्मो नाचरणीयरतहि किमधर्म आचरणीय" इत्यादिकमपि सन्मार्गदेशकान्प्रति निरर्थकमाक्षिपन्ति । तेषामपूर्वमेव तर्ककौशल्यमपूर्वमेव च पाण्डित्यम् । यतो हि न कश्चित् सन्मार्गदेशकः केनाऽपि हेतुनाऽधर्माचरणं कदाप्युपदिशेत् । वन्ततः संसारसुखार्थ न कस्यचित् कश्चिदुपदेशोऽपेक्षितो, विनाप्युपदेशं तत्प्रति जनानां पटुत्वात् । संसारसुखरय दु.खरूपता प्रतिपादयद्भि शास्त्रकृद्भिर्न संसारसुखार्थ किंचिदुपदिष्टम् । को नामोन्मत्तं विहायैकान्ततो हेये प्रवृत्तिमुपायं वोपदिशेत ? संसारसुखार्थं धर्ममुपदिशता शास्त्रविरोधादयो यथा भवन्ति तथान्यत्र प्रपंचितमिति केवलं प्रस्तावनाविस्तारे नेह प्रयत्यते ।
अथ च तपसा कर्म निर्जरयताप्युत्तमगुणेष बहुमानः कार्योऽन्यथा तपसो तथाविधफलाभावेन तद्वैययं स्यादिति गुणभावनां भावयता 'धन्ना कलत्त.....॥४५७' इत्यत आरभ्य गाथाष्टकेन ग्रन्थकृता गुणबहुमान एव व्यक्तीकृत । उत्तमगुणानां मध्ये सर्वोत्तमो गुणः श्रीजिनधर्मप्राप्तिरेव, तत्सदभाव एवापरेषां सद्भावोऽन्यथा तेषां विद्यमानत्वे ऽपि
॥अढार ॥