________________
प्रस्तावना
भव भावना प्रकरणे
नरकदुःखहेतुत्वेन निदर्शयता गुर्वादिना समुपकृतेऽपि तान्येवासेव्य जीवा नरकं प्रयान्तीत्यत्र तत्त्वाश्रदधैव प्रधानकारणमन्यथा दुःखभीता दुखनिमित्तानि जानाना अपि तान्येवाSSसेव्य कथं दुःखघोरे नरकं प्रयायुः ?, सम्यग्दर्शनादिकमनासाद्य स्वदुष्कर्मविपाकमनुभूय नरकगतेरुवृत्ता जीवाः प्रायस्तिर्यञ्चो भवन्ति, यतो हि नारका मनुष्येषु, गर्भजपर्याप्तेष्वेव जायन्ते, न पुन रकेषु देवेषु वोत्पद्यन्ते, गर्भजपर्याप्तमनुष्याश्च सङ ख्यातमात्राः स्वल्पा एव, नारकास्त्वनुसमयमसङ ख्याता अप्युद्वर्तन्तेऽत एकसमयोवृत्तानामपि तेषां सर्वेषां मनुष्येषु स्थानाभावेन रवापेक्षयाऽसङ ख्येयगुणेषु तिर्यवेव बहवस्ते जायन्त इति, नरकगतिभावनानन्तरं तिर्यग्गेतिर्भाविता । तत्र च तिर्यग्भेदा, एकेन्द्रियेषु पृथ्वीकाये स्फोटनादिदुःखमप्काये पानादिना, तेजस्काये खोट्टनादिना, वायुकाये वीजनादिना, तरौ च छेदनादिना दु.खं, निगोदस्वरूपं, शुल्लकभवमानं, पुत्रादिरनेहेनाज्ञानादिना चेकेन्द्रियेष जन्मेत्यादि प्रतिपाद्य विकलेन्द्रियस्वरूपेण मह तत्रोत्पत्तिहेतुत्वेन श्रीजिनधर्मोपहासादयो निरूपिताः । गजमृगोष्टशूकरमहिषादितिरश्चां जुधादिवेदना यद्यपि प्रतीता एव किन्तु मेधकुमारादिभिस्ताः प्राग्भवे यथा सोढास्तथा तास्तेषा पुण्यचरितवर्णनेन वर्णिताः । प्रान्ते च जलचरमत्स्यादेः खेचरशुकाहिपक्षिणाञ्च विविधवेदना निदर्शिताः। उन्मार्गदेशना, मार्गप्रणाशो, गढचित्तता, निदानादिसशल्यत्वं मायारम्भपरिग्रहाः, शीलबते सातिचार इत्येते तिर्यग्गतिहेतव इति विज्ञायाऽपि तत्र प्रवर्तमानानां न ता विहायापरा गतिः सम्भाव्यते। एवं तिर्यग्गतिभावनानन्तरं नरगति भावयता मनुष्याणां गर्भावासे महद् दुःखं, बाल्यकालेऽज्ञानमूलं कष्टमयजीवन, तारुण्ये
चार्थादिसमुपार्जनादिचिन्ता, वार्धक्ये परवशतादिदुःखं व्याधिरोगशोका दिसन्ताप इत्यादीनि प्रतिपादितानि दुःखानि - सर्वेषां प्रतीतानि । अनया रीत्या भावितायां मनुष्य गतिभावनायां, देवगति भावयता ग्रन्थकृता, देवलोकादिग्वरूपं
भकता. देवलोकादिग्वरूपं
मोल॥