________________
स्वकृतकर्मफल विपाकमनुभवतां न कोऽपि शरणं मम्पयत इत्युपदर्श्य तदवेदने नापरः कोऽपि सहाय मात्र भवतीति दर्शयितुमशरणत्व भावनानन्तरमेकत्वभावना भाविता । 'एक्को. ॥५५॥ ' इत्यत आरभ्य 'इय एक्कोचिय ...॥६९॥ ' इत्यन्ताभिर्गाथाभिरिमां तृतीयामेकत्वभावना भावयता, "समर्जयति कर्माण्येक एव तत्फलमप्येक एव भुंक्त, जन्ममरणे एकस्यैव, परभवगमनमप्येकाकिन एव स्वजनानां मध्ये रोगाभिहतः सन्नेकाक्येव क्लिश्यते । न च स्वजनस्तस्य रोगं विभजति न वा पनयति, तथा सति कः कस्य स्वजनः को वा कस्य परजनः ? । वस्तुतोऽयं मम स्वजनो यन परजन इति मोहविजृम्भितमेव परन्त्वेतत्सर्वमविचार्य मूढमनस स्वकल्पितस्वजनानां कृतेऽनेकपापानि समुपाय नरकादिष सहन्ते दारुणा विविधा वेदनाः । एवं सति यो 'मम स्वजनविस्तारो महानिति' गर्वितः सन् पापानि समाचरति तम्याधिकतरं कर्म्मबन्धं विहाय नान्यत्फलं दृश्यत" इत्यादि स्पष्टरीत्या प्रतिपादितं ग्रन्थकृता । अनया रीत्या जीवस्यैकत्वं प्रतिपाद्य तत्सन्निकृष्टशरीरादिकमपि जीवादन्यदिति प्रतिपिपादयिषया 'अन्नं इमं ..... ॥७०॥ इत्यादिगाथाभि र्द्वादशभिश्चतुर्थीमन्यत्वभावनां प्रतिपादयता जीवशरीरयोर्भिन्नं स्वरूपं युक्त्या समर्थितम् । जीवाच्छरीरम्यान्यत्वे सिद्धे जीवभिन्ने शरीरादौ मूर्च्छा नैव विधेया किन्तूदासीनभावो विधेय इत्युपदिश्य यस्याः प्राधान्येन निरूपणमिहोद्दिष्टं तम्या भवभावनाया निरूपणप्रारम्भे चतसृषु प्रागुक्ताऽनित्यादिभावनासु भावितासु भवस्वरूपं भावनीयमित्यमिहितम् । भावितेन तेन विरागोत्पत्तेस्तद्धेतुविपक्षासेवनेन मोक्षावाप्तिरिति सैवेह सविस्तरा निरूपिता । 'नारयतिरिय ॥८२॥ इत्यत आरभ्य 'इय भत्तं विसयसुहं ॥ ४०३ ||' इत्यन्तेन ग्रन्थेन भाव्यमानायामस्या भावनायां नरकगतिं भावयता ग्रन्थकारपरमर्षिणा नरकस्वरूपं, नरकावासानां सडख्या, नारकजीवानां शरीरादिमानं, परमाधार्मिकानां स्वरूपं तत्कृता नारकाणा छेदभेदन विदारणादिवेदना, परस्परवेदना, शीतादिवेदना, नारकाणां दीनता, परमाधार्मिकैर्नारिकाणां पूर्वपापस्मारणं, नरकगतितवो, नेत्रनिमेषमात्रमपि सुखस्याभाव, एवं सत्यपि सम्यग्दृष्टेः शुभविचारो मिध्यादृष्टेश्च तद्विपरीत इत्यादिकं सुविशदरीत्याssवेदितम् । यदाकर्णनमपि तत्त्वश्रद्धालून पापेभ्यस्त्रासयेद् । मांसभक्षणजीवघातादिपापानि
॥ पंदर ||