________________
भावना प्रकरण
सम्यग् द्रष्टिनारकाणां विचारणा
अकयं को परिभुंजइ ? सकयं नासेज्ज कस्स किर कम्मं ? ।
सकयमणुभंजमाणे कीस जणो दुम्मणो होइ ? ॥१७१॥ स्वयमकृतं शुभाशुभं कर्म क इह जगति परिभुङ्क्ते ?, न कश्चिदित्यर्थः । यच स्वयमेव कृतं कर्म तद् एवमेवावेदितं कस्य किल नश्यति-अपगच्छति ?, न कस्यचिदित्यर्थः । एवं च स्वकृतमेव कानुभुञ्जानो लोक; किमिति दुर्मना भवति ?, किं सम्यग् न सहत इत्यर्थः ॥ तथादुप्पत्थिओं अमित्तं अप्पा सुप्पत्थिओ हवइ मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं वा ॥
लोके तावदिदं प्रतीतमेव यः सुखकारणं तत् मित्रं, यस्तु दुःखकारणं सोमित्रः, एवं च सति आत्मैवात्मनो मित्रममित्रं च सुखदुःखयोरंतरङ्गकारणत्वात् । कदा पुनरयमात्मा आत्मनो दुःखकारणं सन्नमित्रो भवति, कदा वा मित्रमित्याह-दुष्प्रस्थितः कुमार्गप्रवृत्त आत्मा दुःखकारणत्वादात्मनोऽमित्रः, सुमार्गानुगश्च मित्रं सुखकारणत्वादिति । अपरामपि सम्यग्दृष्टिचिन्तामाह
॥८८॥