________________
सीउसिणाई वियणा भणिया अन्ना वि दसविहा समए । खेत्ताणुभावजणिया इय तिविहा वेयणा नरए ॥१६४॥
अन्यापि क्षेत्रानुभावजनिता शीतोष्णादिका वेदना दशविधा भणिता समये-आगमे व्याख्याप्रज्ञप्त्यादिलक्षणे, तथा च तत्सूत्रम् (ग्रन्थानं ८०००) "नेरइया णं भंते ! कतिविहं वेयणं पच्चणुभवमाणा विहरंति ?, गोयमा ! दसविहं, तं० सीयं उसिणं खुहं पिवासं कंडु परज्झं जरं दाहं भयं सोगं" तत्र शीतमौष्ण्यं च प्रागेव व्याख्यातं । क्षुत्पुनस्तेषां सदाऽवस्थिता सा भवति या समग्रजगद्धान्यभोजनेऽपि न निवर्तते, न च तेषां कावलिक आहारो भवति, केवलं ते तथाबुभुक्षिता आकाशात् आहारद्रव्याणि गृह्णन्ति, तानि च पापोदयेनाशुचेरनन्तगुणाशुभानि महाविशूचिकाजनकानि च ग्रहणमागच्छन्ति, ततस्तैरनत्यमूढविशूचिकातोऽनन्तगुणदुःखा विसूचिका भवति, ततस्तद्दुःखमन्तमुहर्तमनुभूय तदन्ते पुनस्तादृशाहारद्रव्यग्रहणं, पुनस्तथाविधमेव दुःखं, पुनरन्तमुहर्तात् तद्ग्रहणमित्येवमाहारोऽपि वराकाणां संततमनन्तदुःखहेतुः । पिपासा तु सा काचिद् भवति याऽसत्कल्पनया निःशेषजलधिजलपानेऽपि न व्यावतते । कण्डूस्तु वपुषि तेषां सा निरन्तरमुपजायते या तीक्ष्णचरिकोत्कर्त्तितानामपि न