________________
परस्परोदीरितवेदनास्वरूप
भव- S, सोवंति वजकंटयसेज्जाए अगणिपुत्तियाहिं समं । परमाहम्मियजणियाउ एवमाईउ वियणाओं। भावना प्रकरणे परकलत्रतन्वादिकोमलस्पर्शगृद्धान् स्वापयन्ति, क्वेत्याह-वज्रकण्टकशय्यायां, कथमित्याह-अग्नि
प्रतप्तास्ताम्रमयाः पुत्रिका-पुत्तलिकाः अग्निपुत्रिकाः ताभिः सह । तदेवं परमाधार्मिकजनितवेदनानां दिङ्मात्रम् उपसंहरन्नाह-परमाधार्मिकजनिता एवमादिका वेदनाः अन्या अपि श्रुतसागरादवसेया इति शेषः, इह सर्वासामपि तासां प्रतिपादयितुमशक्यत्वाद् ग्रन्थविस्तरप्रसङ्गाचेति ॥ अथ परस्परोदीरितवेदनामाह
एस मह पुव्ववेरि ति नियमणे अलियमवि विगप्पेउं ।
अवरोप्परं पि घायंति नारया पहरणाईहिं ।।१६३॥ इदमिह तात्पर्य-यः पूर्ववैरिको नाभवत् तमप्यधिकृत्यापरनारकोऽयं मम पूर्ववैरिक इति कर्मवशादलीकमपि विकल्प्य, अपिशब्दात् पूर्ववैरिकेऽपि कथमप्येकस्थानोत्पन्ने सत्यमपि, ततः परस्परमपि, घ्नन्ति नारकाः वैक्रियप्रहरणमुष्टिपाादिभिः॥ अथ क्षेत्रानुभावजनितवेदनामाह
।। ८४॥