________________
रूपाणि विस्फुर्जत्स्फुलिङ्गमालाज्वालाकरालानि तप्तताम्रमयपुत्तलिकादीनि दर्शयन्ति । अथ गन्धरसगृद्धिविपाकमाहवसमंसजलणमुम्मुरपमुहाणि विलेवणाणि उवणेति । उप्पाडिऊण संदसएण दसणे य जीहं च ।
तत्तो भीमभुयंगमपिवीलियाईणि तह य दव्वाणि ।
असुईउ अणंतगुणे असुहाई खिवंति वयणम्मि ॥१६१।। येषां तु सुरभिगन्धातिशयगृद्धानां कर्पूरकस्तूरिकोन्मिश्रकृष्णागरुश्रीखण्डविलेपनादिष्वासक्तिरासीत्तेषां वपुषि वसामांसज्वलनमूर्मुरपूयादिविलेपनान्युपनयन्ति-कुर्वन्ति, येषां तु मद्यमांसरजनीभोजनादिरसगृद्धिरासीत् तेषां संदंशकेन दशनान जिह्वां चोत्पाट्य ततो भीमभुजङ्गमपिपीलिकादीनि वदने क्षिपन्ति, तथा द्रव्याणि वैक्रियाणि कृत्वा वदने क्षिपन्ति, कथंभूतानि?-अशुचीनि-जुगुप्सनीयानि महादुर्गन्धानि, किमुक्तं भवति ?-अशुचेर्विष्ठायाः अनन्तगुणेनाशुभानि ॥
अथ स्पर्शगृद्धिविपाकमाह
॥८३॥