________________
S
गुरुदेवाणुवहासों विहिया आसायणा वयं भग्गं। लोओ य गामकूडत्तणाइभावेसु संतविओ।१४४
ततः किं क्रन्दसीदानीमिति प्राक्तनमिहापि सम्बध्यते । अथोपसंहारपूर्वकमात्मनिर्दोषतां ख्यापयन्तः प्राहुः
इय जइ नियहत्यारोवियस्स तस्सेव पावविडविस्स।
भुंजसि फलाई रे दुट्ठ ! अम्ह ता एत्थ को दोसो ? ॥१४५॥ इति रे दुष्ट ! यदि त्वं फलानि भुक्षे तदाऽस्माकं कोऽत्र दोषः ?, कस्य फलानीत्याह--पापान्येव विटपी-वृक्षः पापविटपी तस्य पापविटपिनः । कथंभूतस्येत्याह- तस्यैव' 'नथि जए सव्वण्ण' इत्यादिपूर्वोक्तप्रकारप्रसिद्धस्यैव, पुनः कथंभूतस्येत्याह-निजहस्तारोपितस्य, स्वयंकृतस्येति भावः । एतानि च नः स्मारितपूर्वभवदुष्कृतानि भवप्रत्ययजातिस्मरणेन नारकाः स्वयमपि जानन्ति, अवधिना तु न किंचिदवगच्छन्ति, तस्योत्कृष्टतोऽपि तेषां योजनमात्रत्वादिनि, इत्यायुक्तप्रकारेण पूर्वभवदुष्कृतानि स्मारयित्वा नरकपालाः पुनरपि नारकाणां यत् कुर्वन्ति तदाह
॥ ७९ ॥