________________
विभवः कृतप्रयलेरपीतरैर्लभ्यः । यत्त्रशतैरपि ताडय यदि सूची भवति पाराची ॥ १ ॥” यत एवं तत्तस्मात्तस्या बुद्धेभेदज्ञातानि भेदानोत्पत्तिक्यादीन्, ज्ञातानि च रोहकादिदृष्टान्तान् वक्ष्ये भणिष्यामि । किमर्थमित्याह - ' तच्वुड्डिहेड' त्ति तद्वृद्धिहेतोर्बुद्धिप्रकर्षनिमित्तम् । इतिर्वाक्यपरिसमाप्त्यर्थः । वुद्धिप्रकर्षयोग्या हि पुरुषा बुद्धेर्भेदांस्तज्ज्ञातानि च धीमत्पुरुपाभ्यर्ण सम्यक् समाकर्णयन्तो निश्चयेन तथाविधवुद्धिधननिधानभूताः संपद्यन्ते । यदवाचिः - " विमलस्पष्टात्मानः | सांगत्यात् परगुणानुपाददते । उपनिहितपद्मरागः स्फटिकोऽरुणिमानमातनुते ॥ १ ॥ ॥ ३७ ॥
यथोद्देशं निर्देश इति न्यायात् बुद्धिभेदानाह;
| उप्पत्तिय वेणइया कम्मय तह पारिणामिया चेव । बुद्धी चउविहा खलु निदिट्ठा समयकेऊहिं ॥३८॥
उत्पत्तिः प्रयोजनं कारणं यस्याः सा औत्पत्तिकी । आहः- क्षयोपशमः प्रयोजनमस्याः, सत्यम्, किन्तु स खल्वन्तरगत्वात् सर्ववुद्धिसाधारण इति न विवक्ष्यते । न चान्यच्छास्त्रकर्मादिकमपेक्ष्यत उत्पत्तिं विहाय । यदत्र 'उत्पत्तिगी 'ति निर्देष्टव्ये 'उत्पत्तिय' इति निर्देशः स प्राकृतत्वात् । एवमन्यत्राप्यन्यथानिर्देशे हेतुर्वाच्यः (१) 'वेणइया' इति विनयो गुरुशुश्रूपा, स च कारणमस्यास्तत्प्रधाना वा वैनयिकी (२) 'कम्मय'त्ति इह कर्मशब्देन शिल्पमपि गृह्यते । तत्र अनाचार्य कं कर्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म, शिल्पं नित्यव्यापारः । ततः कर्मणो जाता कर्मजा ( ३ ) तथाशब्दः समुच्चये 'पारिणामिया' इति परि समन्ताद् नमनं परिणामः सुदीर्घकालं पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः,