________________
श्रीउपदेशपदे
॥ ४५ ॥
स कारणमस्यास्तत्प्रधाना वा पारिणामिकी (४) चैवशब्दस्तथाशब्दवत्, बुध्यतेऽनयेति बुद्धिर्मतिः सा चतुर्विधैव खलुशब्दस्य निर्धारणार्थत्वात् । निर्दिष्टोक्ता समयकेतुभिः सिद्धान्तप्रासादचिह्नभूतैस्तीर्थ करगणधरादिभिरित्यर्थः ॥ ३८ ॥ I औत्पत्तिक्या लक्षणं प्रतिपादयन्नाहःपुवमदिट्ठमसुयमवेइयतक्खणविसुद्धगहियत्था । अवाहयफलजोगी बुद्धी उत्पत्तिया नाम ॥ ३९ ॥ 'पु' इत्यादि पूर्व बुद्ध्युत्पादात् प्राग् अदृष्टः स्वयमनवलोकितः, 'मसुय' इति मकारस्यालाक्षणिकत्वादश्रुतोऽन्यतोऽपि नाकर्णितः, 'मवेइय'त्ति अत्रापि मकारः प्राग्वत्, ततोऽवेदितो मनसाऽप्यनालोचितः, तस्मिन्नेव क्षणे विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थोऽभिप्रेतः पदार्थों यया सा तथाऽदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । 'अवाहयफलजोगी' इति इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तरावाधितं वाडव्याहतमुच्यते, फलं प्रयोजनं अव्याहतं च तत् फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी; योगिणीति पाठे प्राप्ते योगीति निर्देशः प्राकृतत्वात् । अन्ये तु 'अबाहयफलजोगा' इति पठन्ति - अव्याहत फलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नाम औत्पत्तिक्यभिधाना बोद्धव्या ॥ ३९ ॥
सांप्रतमेतज्ज्ञातान्याहः—
भरहसिलपणियरुक्खे खड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डगमग्गित्थिपइपुत्ते ॥ ४० ॥
बुद्धिचतुष्टये प्रथमबुद्धिलक्षणम्.
॥ ४५ ॥