________________
द्वारगाथा | अस्यां सप्तदशोदाहरणानि तद्यथा- 'भरहसिल 'त्ति भरतशिला ( १ ) 'पणिय'त्ति पणितं (२), वृक्षः (३), 'खड्ग'त्ति मुद्रारलं ( ४ ), 'पडसरडकायउच्चारे' इति पटः ( ५ ), सरडः ( ६ ), काकः ( ७ ), उच्चारः ( ८ ), 'गयघयणगोलखंभे ' इति गजः ( ९ ), 'घयण'त्ति भाण्डः ( १० ), गोल: ( ११ ), स्तम्भ : (१२), 'खुड्डगमग्गित्थिपत्ते' इति - | छकः (१३), मार्गः (१४), स्त्री ( १५ ), द्वौ पती (१६), पुत्रः ( १७ ) इति एतानि सप्तदश पदानि । तत्र ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥ ४० ॥
तत्राद्यज्ञातसंग्रह गाथा -
| भरहसिल मिंढ कुक्कुड तिल वालुग हत्थि अगड वणसंडे । पायस अइया पत्ते खाडहिला पंच पियरो य ।
'भरह सिल' इत्यादि भरतो नटस्तद्वृत्तान्तगता शिला भरतशिला १, मेंढो मेषः २, कुक्कुटस्ताम्रचूडः ३, 'तिल'त्ति तिलाः ४, 'वालुग'त्ति वालुकायाः संवन्धिनी वरत्रा ५, हस्ती, ६, 'अगड'त्ति अवढं कूपः ७, वनखण्डः ८, पायसं ९, 'अइया' इति अजिकाया छगलिकायाः पुरीपगोलिका १०, 'पत्ते' इति पिप्पलपत्रं ११, 'खाडहिल 'त्ति खिलहडिका १२, पञ्च पितरश्च तव राजन् पच जनकाः १३ ॥ इयं च संग्रहगाथा स्वयमेव सूत्रकृता व्याख्यास्यत इति न विस्तार्यते ॥ ४१ ॥ तथा, -
| महुसित्थमुद्दियंके णाणए भिक्खुचेडगनिहाणे । सिक्खा य अत्थसत्थे इच्छा यमहं सय सहस्से ॥४२॥