________________
श्रीउपदेशपदे
॥ ४६ ॥
ऊऊ
'महुसित्य'त्ति मधुसिक्थकं मदनं १, मुद्रिका २, अंकश्च ३, ज्ञानकं व्यवहारार्हरूपकलक्षणं ४, 'भिक्खुचेडगनिहाणे' इति भिक्षुः ५, चेटकनिधानं ६, शिक्षा च ७, अर्थः ८, शस्त्रं ९, 'इच्छा य महं'ति इच्छा च मम १०, शतसहस्रं ११ एतान्यपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते । एवं चाद्यसंग्रहगाथायाः संबन्धीनि सप्तदश एतानि चैकादश मीलितानि अष्टाविंशतिर्मूलज्ञातानि औत्सत्तिक्यां बुद्धाविति ॥ १ ॥ ४२ ॥
अथ वैनयिकीस्वरूपमाहः -
भरनित्थरणसमत्था तिवग्ग सुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ४३
इहातिगुरुकार्य दुर्निर्वहत्वाद् भर इव भरस्तस्य निस्तरणे पारप्रापणे समर्था भरनिस्तरणसमर्धा, त्रयो वर्गास्त्रिवर्ग लोकरूढेर्धर्मार्थकामास्तदर्जन परोपायप्रतिपादनमेव सूत्रं तदन्वाख्यानं तदर्थः पेयालो विचारः सार इत्येकोऽर्थः, ततस्त्रिवर्गसूत्रार्थयोर्गृहीतं पेयालं यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, 'उभओलोगफलवइ' त्ति उभय लोकफलवती ऐहिकामुष्मिकफलप्राप्तिप्रगुणा, विनयसमुत्था विनयोद्भवा वैनयिकी इत्यर्थः भवति बुद्धिः ॥ ४३ ॥
अथैतज्ज्ञातानिः
णिमित्ते अत्थसत्थे य लेहे गणिए य कूव आसे य । गद्दभलक्खणगंठी अगए गणिया य रहिए य ४४ सीआसाडी दीहं च तणं अवसव्वयं च कुंचस्स । निवोदए य गोणे घोडगपडणं च रुक्खाओ ॥४५॥
औत्पत्तिक्यां ज्ञाता
नां संग्रहः
वैनयिकी -
स्वरूपंच.
॥ ४६ ॥