________________
निमित्तं १, अर्धशास्त्रं च २, 'लेहे' इति लेखनं ३, गणितं च ४, कूपः ५, अश्वश्व ६, गर्दभः ७, लक्षणं ८, ग्रन्थिः ९, अगदः १०, गणिका च रथिकश्चेति ११ ॥ ४४ ॥ शीतसाठी दीर्घं च तृणं, अपसव्यकं च क्रौञ्चस्य इत्येकमेव १२, नीत्रोदकं च १३, गौः घोटक: पतनं च वृक्षादित्येकमेव १४ । एवं वैनयिक्यां सर्वाग्रेण चतुर्दश ज्ञातानि । एतान्यपि स्वयमेव शास्त्रकृता व्याख्यास्यन्त इति नेह प्रयत्नः ॥ २ ॥ ४५ ॥
अथ कर्मजायाः स्वरूपमाह; -
उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ ४६ ॥
उपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽभिनिवेशः, सारस्तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगद्दष्टसारा अभिनिवेशोपलब्ध कर्म सामर्थ्येत्यर्थः कर्मणि प्रसङ्गोऽभ्यासः, परिघोलनं विचारः, आभ्यां विशाला | कर्मप्रसङ्गपरिघोलन विशाला अभ्यासविचार विस्तीर्णा इति यावत् । साधुकृतं सुष्ठु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः साधुकारेण वा शेषमपि फलं यस्याः सा तथा । कर्मसमुत्था कर्मजा भवति बुद्धिः ॥ ४६ ॥ अर्थतज्ज्ञातानि;
| हेरपिणए करिस कोलियडोवे य मुत्तिव्यपवए । तुण्णायवढई पूइए य घडचित्तकारे य ॥ ४७ ॥ हैरण्यिकः सौवर्णिकः १, कर्पकः कृषीवलः २, 'कोलिय'त्ति कोलिकस्तन्तुवायः ३, 'डोवे य'त्ति दवकरच परिवेषक