________________
श्रीउपदेशपदे
॥ ४७ ॥
इत्यर्थः ४, 'मुत्ति'त्ति मौक्तिकप्रोता ५, 'घय'त्ति घृतप्रक्षेपकः ६, लवकः ७, 'तुन्नाय'त्ति तुन्नवायः तुन्नं त्रुटितं वयति सीव्यति यः स तथा ८, वर्द्धकिः ९, 'पूइए य' इति पूतिकः कान्दविकः १०, 'घडचित्तगारे य' त्ति घटकारः कुम्भकारः ११, चित्रकारश्चित्रकर्मविधाता १२ । एवं द्वादश दृष्टान्ताः कर्मजायां मतौ । एतानपि स्वयं सूत्रकृद्भणिष्यतीति नेह कृतो विस्तरः ॥ ३ ॥ ४७ ॥
अथ पारिणामिकीस्वरूपमाहः— अणुमाणहेउदिट्टंतसाहिया वयविवक्कपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया णाम ॥ ४८ ॥ अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीत्यनुमानहेतुदृष्टान्तसाधिका इह लिङ्गिज्ञानमनुमानं स्वार्थमित्यर्थः । तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः । अथवा ज्ञापकमनुमानं, कारको हेतुः, साध्यव्याप्तिप्रदर्शनविषयो दृष्टान्तः । अनुमानग्रहणादेवास्य गतत्वाद् व्यर्थमुपादानमिति चेत्, न, अनुमानस्य तत्त्वतोऽन्यथानुपपन्नत्वलक्षणैकरूपत्वान्न गतार्थत्वं दृष्टान्तस्य । कालकृतो देहावस्थाविशेषो वय इत्युच्यते, ततस्तेन विपक्कः पुष्टिमानीतः परिणामोऽवस्थाविशेषो यस्याः सा वयोविपक्कपरिणामा । तथा 'हियनिस्सेसफलवई' इति हितमभ्युदयस्तत्कारणं वा पुण्यं, निःश्रेयसो मोक्षस्तन्निबन्धनं वा सम्यग्दर्शनादि, ततस्ताभ्यां फलवती बुद्धिः पारिणामिकी नाम ॥ ४८ ॥
अथैतज्ज्ञातानि गाथात्रयेणाहः
| अभए सेट्ठिकुमारे देवी उदिओदए हवइ राया । साहू य णंदिसेणे धणदत्ते सावग अमचे ॥ ४९॥
कर्मजायां
दृष्टान्ताभिधाना
| पारिणामिनिकीस्वरूपंच.
॥ ४७ ॥