________________
श्रीउपदेशपदे
॥ ४४ ॥
एतद्विपर्यये दोषमाहः
आयपरपरिच्चाओ आणाकोवेण इहरहा णियमा । एवं विचिंतियवं सम्मं अइणिउणबुद्धीए ॥ ३६ ॥ आत्मपरपरित्यागः आत्मनः स्वस्य परेषां चानुगृहीतुमिष्टानां देहिनां परित्यागः दुर्गतिगर्त्तान्तर्गतानां प्रोज्झनं कृतं भवति आज्ञाकोपेन भगवद्वचनवितथासेवनरूपेण, इतरथा सूत्रानुसारप्रवृत्तिरूपप्रकारपरिहारेण प्रवृत्तौ सत्यां नियमा दवश्यंभावेन । यथोक्तम् ; - " इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । आणं विणा जिणाणं जे ववहारं ववहरंति ॥ १ ॥” यत एवं तत एवमुक्तप्रकारेण विचिन्तयितव्यं विमर्शनीयं सम्यग् यथावद् अतिनिपुणबुद्ध्या कुशाग्रादपि तीक्ष्णतरया प्रज्ञया, अनिपुणवुद्धिभिर्विचिन्तितस्याप्यर्थस्य व्यभिचारसंभवात् ॥ ३६ ॥
अत एवाहः
बुद्धा एवं तत्तं बुज्झति, ण उण सवेवि । ता तीइ भेयणाए वोच्छं तव्वुडिउत्ति ॥ ३७ ॥
बुद्धियुता अतिनिपुणोहापोहरूपप्रज्ञासमन्विताः । खलुरवधारणे । ततो वुद्धियुता एव एवमुक्तरूपेण तत्त्वं सूत्रानुसारेण प्रवृत्तिरासन्नसिद्धिकजीवानां लक्षणमित्येवंरूपं बुध्यन्ते । व्यवच्छेद्यमाह - न पुनः सर्वेऽपि बुद्धिविकला अपीति भावः, बहुबुद्धिबोध्यस्यार्थस्य सामान्यबुद्धिभिः कृतप्रयत्नशतैरपि वोद्धुमपार्यमाणत्वात् । तदुक्तम् ; - " महतां न बुद्धि१ क 'परलोय दुग्गई' ।
आसन्न सि द्धिजीव
स्यौचित्यानौचित्यप्रवृत्तौ गुण
दोषौ तत्त्व
बोधे निपु
बुद्धिरा
यिकी -
॥ ४४ ॥