________________
श्रीउपदेशपदे
भावाभ्यासे नरसुन्दरज्ञातम्
॥४१३॥
प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽवन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥ ९९१॥ राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो देव्याह्वानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः। तस्मिंश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः। ततो राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः ॥ ९९२॥ कथमित्याह-धिग् निन्द्या वर्तते भवस्थितिः, अचिन्त्यैवंविधानर्धसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेर्निरूपितायाः सकाशाद् 'मो' इति प्राग्वत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकर्णिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च हा मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद् ६ दर्शनमभूत् ॥९९३॥ तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा । तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं * प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहा5 मोक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥ ९९४ ॥ अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाहा[एवं विसयगयं चिय सवेसि एसिं हंतणुढाणं। णिच्छयओ भावविसेसओ उ फलभेयमो णेयं॥९९५॥]
इयमपि गाथा कचनादर्शपुस्तकेप्वस्सस्समीपस्थेषु नोपलब्धा । टीकामुपजीव्य स्वत्रोपनिबद्धा । एवमन्यत्रापि सर्वत्र कोठकलिखितेषु मूलपाठेपु टीकापाठेषु च विज्ञेयम् ।
च दर्शनसम्प्राप्तिः सम्यक्त्त
तम् । ततो गतिविकावेति दर्शयन्नाह
॥४१३॥