________________
एवमुनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिवद्धमेव सर्वेपां त्रयाणामप्येतेषां कुरुचन्द्रादीनां, हन्तेति वाक्यालंरे, अनछानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापका व्यवहारनयात् । यद्येवं कथमित्थं फलविशेषः सम्पन्न। इत्याशंक्याह-भावविशेषतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेपस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलना-12 नात्वं, 'मो' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीथुरसखण्डशर्करावर्पागोलकानां नानारूपो विशेषः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिष्वनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते, तस्माच्च फलविशेष इति ॥९९५॥ यत एवम् सम्माणुट्ठाणं चिय ता सबमिणति तत्तओ णेयं । णय अपुणवंधगाई मोत्तुं एयं इहं होइ ॥ ९९६ ॥ | सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत् तस्मात् सर्व त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्ट्या जेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनवेंन्धकादीन् अपुनर्वन्धकमागोभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहै-1 तेषु जीवेषु भवति । अपुनर्वन्धकादयश्च सम्यगनुष्ठानवन्त एव ॥ ९९६ ।। एयं तु तहाभवत्तयाए संजोगओ णिओगेणं । तह सामग्गीसज्झं लेसेण णिंदसियं चेव ॥ ९९७ ॥ ___एतत्वनुष्ठान तथाभव्यत्वादिसंयोगतो नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् कालनियतिपूर्वकृत पुरुपकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साध्यम्, एफस्य कस्यचित् कारणत्वायोगात् । एतच्च लेशेन संक्षेपेण निदर्शितमेव प्रकटितमेव ॥ ९९७ ॥