________________
श्रीउपदेशपदे
॥ ४१२ ॥
अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इतिः पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोद्वेगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ॥ ९८७ ॥
अथैतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह; -
गरी उ तामलित्ती राया णरसुंदरी ससा तस्स । बंधुमई परिणीया अवंतिरण्णा विसालाए ॥ ९८८ ॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिद्वावणमुत्तरिज्जलेहो अणागमणं ॥ ९८९ ॥ मयविगम लेह कोवे देवीविष्णवण तामलित्तगमो । उज्जाणरायठावण देविपवेसे णिवागमणं ॥ ९९० ॥ भुक्खा कच्छगे कक्कड तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवह चक्क कोट्टाए अवणयणं ॥ ९९९ ॥ रायादंसण मग्गण देवी आहवण णिउणमग्गणया । दिट्ठे देवीसोगो अग्गी रण्णो उ णिबेओ ॥ ९९२ ॥
भव असणं इमीए मो आगमम्मि पणिहाणं । मरणं बंभुववाओ ओसरणे सामिपासणया ९९३॥ दंसण संपत्ती भवपरित्तया सुहपरंपरज्जिणणं । गइदुगविगमा मोक्खो सत्तमजन्मम्मि एयस्स ॥ ९९४॥
नगरी, तुः पादपूरणार्थः, ताम्रलिप्ती नाम समासीत् । तां च राजा नरसुन्दरः पालयामास । स्वसा भगिनी तस्य नरसुन्दरस्य राज्ञो वन्धुमती नामा भूता । सा च परिणीताऽवन्तीराजेन मालवमण्डलाखण्डलेन पृथ्वीचन्द्रनाम्ना विशालायामुज्जयिन्यामिति ॥ ९८८ ॥ तस्य च तस्यामतीव रागोऽजनि क्षणमपि विरहं न सहते मद्यपानप्रवृत्तश्च जातः । ततो
भावाभ्यासेनरसुन्द
रज्ञातम्
॥ ४१२ ॥