________________
C
एवमुफनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिवद्धमेव सर्वेपां त्रयाणामप्येतेपां कुरुचन्द्रादीनां, हन्तेति वाक्यालं-1 काकारे, अनुष्ठानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापकाद् व्यवहारनयात् । यद्येवं कथमित्थं फलविशेषः सम्पन्न घाइत्यागंक्याह-भावविशेपतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेषस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलना
नात्वं, 'मो' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीक्षुरसखण्डशर्करावर्पागोलकानां नानारूपो विशेपः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिप्यनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते,तस्माच्च फलविशेष इति ॥९९५॥ यत एवम्; सम्माणुट्ठाणं चिय ता सबमिणंति तत्तओ णेयं । णय अपुणवंधगाई मोत्तुं एवं इहं होइ ॥ ९९६ ॥ ___ सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत् तस्मात् सर्व त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्ट्या ज्ञेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनर्वन्धकादीन् अपुनर्वन्धकमार्गाभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहैते जीवेषु भवति । अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव ॥ ९९६ ।।। एयं तु तहाभवत्तयाए संजोगओ णिओगेणं । तह सामग्गीसज्झं लेसेण जिंदसियं चेव ॥ ९९७ ॥
एतत्त्वनुष्ठानं तथाभव्यत्वादिसंयोगतो नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् कालनियतिपूर्वकृत पुरुपकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साध्यम्, एकस्य कस्यचित् कारणत्वायोगात् । एतच्च लेशेन संक्षेपेण निदर्शितमेव प्रकटितमेव ॥ ९९७ ॥
RICCTOCRACHNOIRMIRACTICS