________________
-959
*
श्रीउपदे-
**
शपदे
IMIT
से नरसुन्दरज्ञातम्
॥४१३॥
*
*
*
प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽवन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥ ९९१॥राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो देव्याहानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः। तस्मिंश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः। ततो राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः॥ ९९२ ॥ कथमित्याह-धिग् निन्द्या वर्त्तते भवस्थितिः, अचिन्त्यैवंविधानर्थसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेर्निरूपितायाः सकाशाद् 'मो' इति प्राग्वत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकर्णिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद् दर्शनमभूत् ॥९९३॥ तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा । तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहान्मोक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥ ९९४ ॥ अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाहाएवं विसयगयं चिय सवेसि एसिं हंतणुट्ठाणं। णिच्छयओ भावविसेसओ उ फलभेयमो णेयं॥९९५॥]
इयमपि गाथा कचनादर्शपुस्तकेप्वस्सरसमीपस्थेषु नोपलब्धा । टीकामुपजीव्य त्वत्रोपनिबद्धा । एवमन्यत्रापि सर्वत्र कोष्ठकलिखितेपु मूलपाठेपु टीकापाठेषु च विज्ञेयम् ।
ब
*
*
*
॥४१३॥
*