________________
रसरम
गलनस्य मूकत्वस्य च वाग्निरोधरूपस्यैव निपेवणं कृतम् । ततो जनकेन व्याधिनिग्रहार्थ चिकित्सोपक्रमे कृते ज्ञातो वैधकायथा निर्दोषो वातादिविकारशून्य एप इति ॥ ९५४ ॥ मन्त्रिनिवेदना राज्ञा कृता-यथाऽयं निर्दोषोऽपि किमित्येवम
यतिष्ठते । इति । ज्ञातं च मन्त्रिणा धन्यः स्मरणाजातिस्मरणत्वलक्षणात् कश्चिदेष जीवो भवादुद्विग्नो वर्त्तत इति । ततः भवठिइदंसणकणत्ति' भवस्थितेर्जयनुभवरूपाया इतरस्याश्च दर्शनमस्य योग्यं वर्तत इति कथनं निवेदनं मन्त्रिणा राज्ञे कृतम् । तत्त्वज्ञानं गुणसम्पादकं एतस्य मत्सुतस्य भविष्यतीति परिभाव्य राज्ञा तत्र भवस्थितिदर्शने युक्तो नियुक्तः सः ।। ९५५ ॥ कथमित्याह-भूपितोऽलंकृतः सन् याप्ययानगतः सुखासनरूढः ऋद्ध्या विशिष्टपरिवारलक्षणया निःसारितः प्रासादात् । कीदृशः सन्नित्याह-विभागज्ञः हेयोपादेयपदार्थविशेपकुशलः । तत्र च निर्गते भोगिनि भोगभाजि
कचित् पुरुषे दृष्टे, तथा जातक्षणे नवप्रसूतपुत्रोत्सवलक्षणे, तथा 'मयरुयणदरिदग भणीसु' इति मृतरोदने दरिद्रके च | हा भिक्षाचरादौ दृष्टेऽभाणिपुर्भणितवन्तस्ते पार्श्ववर्तिनो जनाः, यथा-किमिह भोगित्वादी तत्त्वमिति ॥९५६॥ स प्राह
लाभरुचेतसो वृद्धयादिप्रयुक्तधनधान्याधुपचयरूपस्य लाभकस्य चेतसः समयपा
कोपभोगी भवति । मूलद्रव्यव्ययेन पुनर्यो भोगी स परमार्थतो भोग्येव (न भवति), निरनुवन्धत्वात्तदोगस्येति तावत् दालोके नीतिः । आत्माभिप्रायेण तु भोगिनं 'धम्मकरणेण भोगी' इत्यादिना कथयिष्यति । जाते तु पुत्रादौ क्षणो वर्द्धा-18
पनकरूपः सुव्याधितुल्यः सुषु-अतिशयेन व्याधिना कण्डूदर्दुप्रभृतिना सदृशः, यथा हि सरोगः कण्डूयमानो मूले किंचित् मुसकारणतया प्रतिभासमानोऽपि परिणामे महान्तमुपतापं दर्शयति, एवं पुत्रजन्मादौ क्षणो विधीयमानः प्रथ
स