________________
श्रीउदैशपदे
॥ ३९५ ॥
मत आह्लादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियाभिव्यंग्यं तदपेक्षेति अपेक्षानिमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि त्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः । कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इहपरलोक दरिद्रयोर्द्वरं विसदृशत्वात् ॥ ९५७ ॥ यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम्, यथा - अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः । ततो राज्ञा प्रियवचनप्रयोगपूर्वकं 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणामो धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा - अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनुमतिः पितुः सम्बन्धिनी यदा लब्धा, तदा संवेगसाधनं संवेगसारेण भूत्वा कथनं भावसारमिदं कृतम् ॥ ९५८ ॥ एतदेव दर्शयति-धर्मकरणेन शुद्धसुकृतापादनेन सर्वतो भोगी सर्वतोमुखप्रवृत्ताद्धनधान्यादेर्लाभादिहभवे परभवे च भोगवान् स्यात् । इतरथातु धर्मस्याकरणे पुनस्तुच्छभोगी, धर्मकरणमन्तरेण निरनुबन्धत्वेन भोगस्य तुच्छ फलत्वात् । इतिः प्राग्वत् । तथा, राज्यफलस्तु व्याधिरिति राजस्येव फलमुपचाररूपं यस्य स तथा, तुः प्राग्वत् । सुव्याधिर्गडुत्रण कुष्ठादिदारुणरोगः । य एव पचारोऽभिषेकपट्टवन्धवालव्यजनादौ राज्ये प्रवर्तते, स एव सुव्याधावपीति न कश्चिद् विशेषो व्याधिराज्य योरिति कथं मतिमान् राज्याभिलाषी स्यात् ? तत्क्षणसद्दशस्तु व्याधिनिर्विशेषराज्योत्सवसदृशः पुनरेतेषु प्रत्यक्षतो दृश्यमानेषु पुत्रादिषु 'य उत्सवः' इति वाक्यशेषः । यथा राज्योत्सवो न परिणामसुन्दरः "त्रय एते नरकं
सतताभ्यासाहरणम्
॥ ३९५ ॥