________________
श्रीउपदे-
शपदे ॥३८९॥
तैलपात्रीधारकज्ञातम्
ज्ञायते केनापि प्रकारेण शुद्धिर्भविष्यति । ततः श्रेष्ठिसुतेन परिभावितं,-यथैवं राजमाणिक्यापहारद्वारेण या दोषसम्भा
वना तामपेक्ष्याऽदोषोऽहं वर्ते, तथापि किं करोमीत्येवंलक्षणेन प्रकारेण ॥ ९२८ ॥ यक्षाभ्यर्थना तेन कृता, विज्ञापय है ममार्थ मन्निमित्तं तं नृपं राजानं, यथा-सुदण्डेन सुकुमारेण केनचिद्दण्डेन निगृह्य मां मुश्चतेति । ततो यक्षेण तत्प्रेरणा
कृता, यथा-शिक्ष्यसे शरीरनिग्रहमन्तरेण यदन्यत् ते प्रायश्चित्तम् , अहं दापयिष्यामि तत् कर्तुमिति । तेनाभाणिबाढमिति । एवं परिणामो लब्धस्तस्यानेन । तदनुविज्ञप्तिः कृता । राज्ञा चोचे-तैलपात्री भृतोभयकरगृहीता नगरमध्ये भ्रमणीया, यदि पुनस्तत्तैलबिन्दुरेकोऽपि पतति तदा तस्य निश्चितो वधो विधेय इति ॥ ९२९ ॥ 'संगच्छण'त्ति अभ्युपगमस्तेन जीवितार्थिनाकृतो, यथा-अहं यथाशक्त्यमुमर्थ साधयिष्यामि । एवं प्रतिपन्ने खड्गधरास्तस्य चतसष्वपि दिक्षु निरूपिताः, यथा-अयमस्मिन्नर्थे प्रमादं करोति तदाऽतीव निग्रहणीय इति । ततस्तस्यास्तैलभृतायाः पाच्या उत्क्षेप उत्पाटनं कृतं तेन । राज्ञा च तच्चित्तव्याक्षेपार्थ क्षणस्योत्सवस्य निरूपणा सर्वत्र त्रिकचतुष्कचत्वरादिषु प्रारब्धा ।
तल्लिप्सया जीवितवाञ्छया यत्ननयनं तस्यास्तैलभृतायाः पाच्या यलेन कायिकवाचिकमानसव्याक्षेपपरिहारेण राजपदा-18 ६ न्तिकं यावन्नयनं कृतम् । ततस्तस्मिन्नत्यन्तदुष्करेऽत एव केनाप्यनध्यवसेये वस्तुनि सम्पादिते राज्ञा प्रेरणं तस्य कृतं,
यथा-समस्त्यप्रमादो दुष्करार्थविधायी, किमिति त्वं मुधा भणसि, यथा-न कश्चिदप्रमत्तः समस्तीति । तेन चैवमिति प्रतिपत्तिः कृता । प्रतिबोधितश्च धर्ममार्गे ॥ ९३०॥ यथा त्वमेवं मरणमात्रभयात् दुष्करमप्रमत्तताभावमगीकृतवान्, एवमनन्तानामपरिमाणानामिह भीतास्त्रस्ता मरणादिकानां दुःखानां सेवन्तेऽप्रमादमुक्तलक्षणं साधवो मोक्षार्थ मुक्तिनि
३८९॥