________________
बहुभिर्गुणधर्मो लभ्यते, विभवेन तु बहुना रलानीत्यर्थः । ततः कथमेतेपु रलेषु धर्मे चैतद्दरिद्राणां बहुगुणविभवशुन्यानां तथा गुणरनस्पृहाप्रकारेण स्वमेऽपि निद्रायमाणावस्थायामपि प्रवर्त्तते चिन्ता, सर्वचिन्तानां प्रायः स्वमाप्त्यनुसारेण लोके प्रवृत्तिदर्शनात् ॥ ९१२ ॥ एतदेव सविशेष भावयति;
धण्णाइसु विगइच्छा वत्थहिरण्णाइएसु तह चेव । तच्चिंताए विमुक्का दुहावि रयणाण जोगत्ति॥९१३॥ है। धान्यादिपु धान्ये शालिगोधूमादी, आदिशब्दाद्' महिप्यादिषु च विगतेच्छा उपरतवाञ्छाः, तथा वस्त्रहिरण्यादिकेषु
वखाणि चीनांशुकादीनि, हिरण्यं घटितकनकादि, आदिशब्दादन्यविचित्रवस्तुग्रहः, ततस्तेषु तथा चैव विगतेच्छा एव; अत एव तच्चिन्ता धान्यादिग्रहणविक्रयबुद्धिस्तया विमुक्ता विकला द्विधापि रत्नानां योग्याः धर्मरलस्य द्रव्यरलानां पार्दा भवन्तीत्यर्थः । इति प्राग्वत् ॥ ९१३ ॥ अधुना व्यतिरेकमाह;जे पुण थेवत्तणओ एएसुं चेव अविगएच्छत्ति। ते एयाण अजोग्गा अइणिउणं चिंतियवमिणं॥९१४॥ __ ये पुनः पुण्यविकलाः स्तोकत्वतस्तुच्छत्वेन धनादीनामेतेष्वेव धान्यादिष्वविगतेच्छास्तदभिलाषिणः, इति पूर्ववत् , ते पुरुषा एतेषां द्रव्यरलानां धर्मरलस्य चायोग्या वर्तन्ते । अतिनिपुणं सूक्ष्माभोगसंगतं यथा भवत्येवं चिन्तयितव्यमालोचनीयमिदं पूर्वोक्त वस्त्विति ॥ ९१४ ॥ अथ पूर्वगाथोदिष्टं गुणविभवं धर्मरत्नार्थिनां धान्यादिरूपतया परिकल्प्य निदर्शयन्नाहा
5555555555555555)