________________
श्रीउपदेशपदे
॥ ३८५ ॥
बहुजनप्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेश भृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनवृत्तिलक्षकोट्यादिसंख्यलोकसमाचाररूपा दृश्यते ॥ ९०९ ॥ ता आणाणुगयं जं तं चैव बुहेण सेवियहं तु । किमिह बहुणा जणेणं हंदि ण सेयस्थिणो बहुया ॥ ९९० ॥
तत् तस्मादाज्ञानुगतं सर्वज्ञ प्रवचनप्रतिबद्धं यदनुष्ठानं तदेव मोक्षाभिलाषिणा बुधेनोत्तमप्रकृतिना पुरुषेण सेवितव्यम् । तुः पादपूरणार्थः । किमिह धर्मकरणे बहुना जनेन स्वच्छन्दचारिणा लोकेन प्रमाणीकृतेन ? हन्दीति पूर्ववत् । न श्रेयोऽर्थिनो निर्वाणाभिलाषिणो बहवो जना यतः ॥ ९९० ॥ एतदेव भावयतिः - रणत्थिणोऽतिथोवा तद्दायारोवि जह उ लोयम्मि । इय सुद्धधम्मरयणत्थिदायगा दढयरं णेया ॥ ९११ ॥
रत्नार्थिनः पद्मरागपुष्परागादिप्रस्तरखण्डाभिलाषिणोऽतिस्तोकाः पञ्चषादिरूपाः, तद्दातारोऽपि रत्नविक्रेतारोऽपि यथा तु यथैवातिस्तोका लोके घृततैलधनधान्यादिवाणिज्यकारिणि जने । इत्येवं शुद्धधर्मरत्नार्थिकायका निर्वाणावन्ध्यकारणसम्यग्दर्शनादिशुद्धधर्मरत्नार्थिनो भव्यजीवाः, तद्दायकाश्च गुरवः स्वभावत एव भवोद्विग्ना लब्धागमरहस्याः, अत एव मोक्षमार्गैकरतयो दृढतरमत्यर्थ ज्ञेया अतिस्तोका इति ॥ ९११ ॥ अत्र हेतुमाह; -
विवेणजओ ए लब्भंति ता कहमिमेसु । एयदरिदाणं तह सुविणेवि पयहई चिंता ॥ ९९२ ॥ बहुभिर्गुणैरक्षुद्रताभिः, बहुना च विभवेन धनेन धान्यादिसम्पत्तिरूपेण यत एतानि रत्नानि शुद्धधर्मश्च लभ्यन्ते,
लोकरूढित्यागोप
देश:
॥ ३८५ ॥