________________
कता। चिन्ता-कथमियं मूला प्राप्स्यते । ततः सर्वचरणं कारयितुमारब्धोऽसौ तया । इत्येवं प्राप्ता मूला । तमअणाच मनुजः समजनीति । एवमनेन न्यायेनेह गम्भीरतत्त्वविचारे प्रस्तुते सत्येषा धर्ममूला विपर्यस्तज्ञानरूपपशुभावनिवनिक्षमा लभ्या इति ॥ ९०५॥ तत् तस्मादद्यापि देवगुरुधर्माणामनेकधा लोकवृत्तानां सम्यकपरिज्ञानाभावे सति जोसेन सामान्येन सर्वदेवताराधनरूपेणेह धर्मतत्त्वे साध्ये, उचितत्वेन यो देवादिर्यावत्याः प्रतिपत्तेोग्य इत्येवंरूपेण' अविरोधातः शिष्टलोकरूढविभवोपार्जनादिन्यायानतिक्रमेण, यतः कर्त्तव्यः । तथा, यथा भवतो गोत्वविगमतः संसारित्यरूपगोभावहासेन जीवमनुजत्वं केवलजीवलक्षणं मानुष्यमाप्यत इति ॥ ९०६ ॥ ततस्तोपात् तस्य राज्ञः प्रमोदादहो! महद् माध्यस्थ्यमित्येपाम्' इत्येवंलक्षणात् शासनवर्णो जैनदर्शनप्रशंसारूपः सम्पन्नः। पूजा च गौरवरूपा शास-18 नस्यैव कृता । तया च दर्शनगोचरया भक्त्या वीजप्रक्षेप आत्मक्षेत्रे राज्ञा विहितः। एवं प्रागुक्तगीतार्थाचार्यवत् ज्ञानी बाहुल्यतो हितमेव कुरुते । इति प्राग्वत् ॥ ९०७ ॥ यत एवं ततः 'एयारिसओ' इत्यादि । एतादृशश्च तादृश एव निरुपिताचार्य सदृशो लोकः खेदज्ञो निपुणो । हंदीति पूर्ववत् । धर्मे श्रुतचारित्राराधनलक्षणे बुद्धिमता नरेण कर्त्तव्यः प्रमाणं निर्णयहेतुः। इत्यस्मादगीतार्थप्रमाणकरणानर्थभावाद् हेतोर्न पुनः शेषोऽपि तत्सदृशाकारधारकोऽपि, आकारसाम्येऽपि भावानां परस्परं चित्रशक्तित्वेन भेदात् ॥ ९०८ ॥ आह-यद्येवमल्प एव लोकः प्रमाणीकर्तव्यः स्यात् , तथा चाल्पलोकपरिगृहीतत्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह;वहुजणपवित्तिमेत्तं इच्छंतेहिं इहलोइओ चेव । धम्मो ण उज्झियवो जेण तहिं बहुजणपवित्ती॥९०९॥