________________
श्रीउपदे- हिच राज्ञा पृच्छा कृता, यथा-'भगवन् ! किं तत्त्वम् ?' इति । गुरुणा चोक्तमतिगंभीरं तत्त्वं स्वयमेव ज्ञातुमशक्यमि-6 कर्णदुर्बल शपदे त्यर्थः । स प्राह-साधयत कथयत यद्येवमतिगम्भीरं तथा ज्ञातुमशक्यम् । गुरुः-शृणूपयुक्तः सन् ॥ ९०१॥ स्वस्ति- नृपोदा
मत्यां पुरि ब्राह्मणदुहिता काचित् । तस्याश्च सखिका भूता। तयोश्च कालेन भिन्नयोः स्थानयोर्विवाहाद् भेदः सम्पन्नः। हरणम्द इति प्राग्वत् । अन्यदा च ब्राह्मणदुहितुः सुस्थासुस्थे सौख्ये दौख्ये चेत्यर्थः सखीगोचरे चिन्ताऽभूत् । ततः स्वयमेव
प्राघुर्णगमने प्राधुर्णकभावेन तदन्ते गमने कृते विषादस्तस्यास्तया दृष्ट इति ॥ ९०२॥ ततः पृच्छा विषादनिमित्तविषया तया कृता । सख्या च साधनमारब्धं, यथा-पापाऽहं यतो दुर्भगा पत्युर्वर्ते इति । तया चोक्तं-मा कुरु खेदं, करेमि ते तव पतिं गामनड्वाहम् । ततो मूलिकादानं कृत्वा गमनं निजस्थाने ब्राह्मणपुत्र्याऽकारि । ततस्तया सख्याऽप्रीत्या यथाऽहं चिरकालमनेनापमानितेत्यभिप्रायेण प्रयोगश्चूर्णादिव्यापाररूपः तया मूलिकायाः पत्यौ कृतः॥९०३॥ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति गोत्वं भर्तुः समजनि । तं च तथाविधमालोक्य सा विद्राणा विषण्णा, यथा-कथमयं पुनः पुमान् भविष्यतीति । ततस्तया बहिश्चारिचरणार्थ गवां मध्ये तस्य मीलनं कृतम् । स्वयं च पृष्ठलग्ना भ्राम्यतीति । अन्यदा चानेन केनचिद् विद्याधरयुग्मेन वटशाखावलम्बिना दर्शनं तस्य कृतम् । तेन च तस्मिन् कथनं सहचर्याः कृतं विद्याधरेण, यथैष मनुजः सन् वृषभतया वृत्तो वर्त्तते । ततस्तया पृष्टः कथमयं पुनरपि मनुजो भविष्यतीति । स प्राह
-मूलया। विद्याधरी-इयं मूला कुत्र तिष्ठतीति ॥९०४॥ विद्याधरः-न्यग्रोधतलेऽस्यैव पादपस्य मूले । इत्युक्त्वा से ॥३८४॥ विद्याधरयुग्मं तिरोऽभूत् । अस्य च समग्रस्यापि वृत्तान्तस्य गोपत्न्याधःस्थितया श्रवणमकारि । तदनुगृहगमनादेर्निवर्तना