________________
श्रीउपदेशपदे
तादि
३८६॥
| अक्खुदाई धण्णाइया उ वत्थाइया उ विण्णेया। मज्झत्थाई इइ एकवीसगुणजोगओ विहवो॥९१५॥ धर्मरत्नप्रा__ अक्षौद्यादयोऽक्षौद्यमक्षुद्रता, आदिशब्दाद्' रूपवत्त्व-सौम्याकृतित्व-जनप्रियवाडकरत्वाऽभीरुत्वाऽशठत्व-दाक्षियं
प्तियोग्यलज्जालुत्व-दयालुत्वंग्रहः। ततोऽक्षोयमादिर्येषां दशानां गुणानां ते तथा । किमित्याह-धान्यादयो वर्तन्ते धान्यधनादिकल्पा इत्यर्थः । तुः पूर्ववत् । वस्त्रादयस्तु विज्ञेया माध्यस्थ्यादयः । वस्त्रादिकल्पा माध्यस्थ्यादय एकादशगुणा इत्यर्थः । अत्र माध्यस्थ्यं मध्यस्थवृत्तित्वं । आदिशब्दात् सौम्यदृष्टित्व-गुणरागित्व-सत्कथासुपक्षयुक्तत्व-दीर्घदर्शित्वेविशेषज्ञत्वं-वृद्धानुगामित्व-विनीतत्व-कृतज्ञत्व-परहितार्थकारित्व-लब्धलक्षत्वग्रहः । इत्येवमेकविंशतिगुणयोगतो धार्मि-8 | कस्य गुणविभवो भावनीयः। यथा हि पूर्व धान्यादिगुणप्राप्तौ कुटुम्बनिर्वाहहेतुभूतायां, पश्चाद् वस्त्रादिप्राप्तौ च सत्यां है रत्नवाणिज्यं कुर्वन् व्यवहारी समभिलषितसिद्धसिद्धिभावेन सर्वांगकल्याणभाग् भवति, तथाऽक्षौयादिगुणयोगेन प्राक्, पश्चाद् माध्यस्थ्यादिगुणयोगतः परिपूर्णैकविंशतिगुणयोगविभवेन शुद्धधर्मरत्नप्राप्तियोग्यो भवतीति ॥ ९१५ ॥ ननु यदि पूर्वोत्तैकविंशतिगुणविभवयोगेन धर्मरत्नाधिकारिणो निरूप्यन्ते, तत् किमेकादिगुणहीना अनधिकारिण एवेत्याशंक्याहापायद्धगुणविहीणा एएसि मज्झिमा मुणेयवा । एत्तो परेण हीणा दरिद्दपाया मुणेयवा ॥ ९१६ ॥
पादेनार्धेन च प्रमितैर्गुणैर्विहीनाः प्राणिन एतेषां गुणानां मध्याद् मध्यमाः, परमध्यमा जघन्याश्च ज्ञेया ज्ञातव्याः। इतो विभागत्रयात् परेण हीना दरिद्रप्रायाः पूर्वोक्तगुणाधानापेक्षया निर्धना मुणितव्याः, न ते शुद्धधर्मरत्नयोग्या इत्यर्थः ॥९१६ ॥ एतदेव भावयति:
SHRSS