________________
नृपपलीनिदर्शनम्
शपदे
श्रीउपदे- भक्तिमात्राकष्टाः करितुरगादयस्तिर्यविशेषास्ते द्वितीयशालाभ्यन्तराले, ये च शेषधार्मिका देवदानवमानवास्ते 'यावहे
वस्तावत् प्रविशन्ति इति ॥ ८९२ ॥ ततो यदा निश्चलचित्ता सा सम्पन्ना तदा साधनं निवेदनं गुरुणा कृतं, यथासमयः ॥३८२॥
संकेतोऽयं यः प्रागुक्तः स नान्येषां तीर्थान्तरीयाणां वर्त्तते । तया च आम-एवमिति प्रतिपन्ने गुरुणा कथितं, यथा'अन्येनापि ध्यानार्थिना तथारूपं तं भगवन्तं हृदयमध्ये परिकल्प्य देवदानवादिवत् तं यावत् प्रवेशः कर्त्तव्यः, ततस्तदुपरि 5 प्रवेशोपरि 'अध्युष्टकला' इति सार्दाभिस्तिसृभिः कलाभिः समनुगतो भगवान् ध्येयः' । इहाऽष्टौ कला:-ज्ञानावरणादिर कर्माप्टकरूपाः। तत्र घातिकर्मरूपाश्चतस्रः कियत्यपि चायुःकर्मकला केवलज्ञानोदयकाले भगवतः क्षीणा, शेषास्तु सार्धा
स्तिस्रः कला अवशिष्यन्ते । अतस्ताभिः समनुगः केवलिविहारकालं यावद् ध्यातव्यः। तदुक्तमनेनैव शास्त्रकृता ब्रह्म5 प्रकरणे-"सर्व धर्मादि यः साक्षायुगपद्वेत्ति तत्त्वतः । रागादिरहितश्चैव स सर्वज्ञः सतां मतः॥१॥ सार्धसत्रिक
लोपेतः क्षीणसार्द्धचतुष्कलः । सर्वार्थनिरतः श्रीमान् नृसुरासुरपूजितः॥२॥ अन्वर्थयोगतश्चायं महादेवोऽहंतस्तथा। बुद्धश्च गीयते सद्भिः प्रशस्तै मभिस्तथा ॥३॥” इत्यादि । सार्द्धसत्रिकलोपेत इत्यादि-सार्दाभिः तिसृभिः सतीभिः प्रशस्तकर्मत्वेन सुन्दराभिः कलाभिरुपेतः। अतोऽस्मादन्यत् सिद्धस्वरूपलक्षणं द्वितीयं ध्यानं ध्यातव्यम् , यथोक्तम्"अनन्तदर्शनं ज्ञानं सम्यक्त्वादिगुणान्वितम् । स्वोपात्तानन्तरत्यक्तशरीराकारधारिणम् ॥१॥ साकारं च निराकारममूतमजरामरम् । जिनविम्बमिव स्वच्छस्फटिकप्रतिविम्बितम् ॥२॥ लोकायशिखरारूढमुढसुखसम्पदम् । सिद्धात्मानं | निरावाधं ध्यायेदुद्धृतकल्मषम् ॥३॥” इति । एतस्य च द्वितीयस्यापि ध्येयस्याभ्यासाद् दर्शनमवलोकनं सम्पद्यते ।
ARREARSAGARSEASEARSAGAR
॥३८२॥