________________
ACCIENCYCINNOCIACANADA
श्रुतमागमार्थोऽधीयमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानतां प्रतिपद्यते । इह त्रीणि ज्ञानानि श्रुतज्ञासानादीनि । तल्लक्षणं चेदं-"वाक्यार्थमात्रविपयं कोष्ठकगतवीजसन्निभं ज्ञानम् । श्रुतमयमिह वि.
मयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलविन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।। 31॥२॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रनदीप्तिसमम् ॥ ३॥" अशुद्धसद्रलदी-||3| प्तिसममिति । अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्तस्य पद्मरागादेर्दीप्त्या तुल्यमिति । इतरस्य विति अभिनिविष्टस्य पुनर्मिथ्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते । इदमुक्तं भवति-इह कश्चित् 'एगे आया' इति स्थानाङ्ग
प्रथमसूत्रस्य श्रवणादेक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा वापि दृश्यते जलचन्द्रवत् ॥ १॥" || है इत्येवं प्रतिपन्नात्माद्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुप
नानात्वस्येष्टस्य च संसारापवर्गविभागस्य वाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षणमेवैकमर्थमार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या तस्य सोऽर्थमार्गः श्रुतं, न तु चिन्ताभावनाज्ञानरूपम् । यस्तु स्वबोध एवाभिनि-| विष्टो गीतार्थः प्रज्ञाग्यमानोऽपि न सम्यगमार्गार्थ प्रतिपद्यते तस्य तन्मिथ्याज्ञानमेव । एवमन्यसूत्रेष्वपि भावना कार्येति । ८८२ ॥ आह-एवं प्रतिनियतसूत्रोदेशेन लोके पदार्थादयो रूढास्तत्कथमित्थमेतत्प्रज्ञापना क्रियते? सत्यम्;
लोउत्तराउ एए एत्थ पयत्थादओ मुणेयवा । अस्थपदणाउ जम्हा एत्थ पयं होइ सिद्धति ॥ ८८३॥ है। लोकोत्तरास्तु जैनेन्द्रशासनानुसारिणः पुनरेतेऽनन्तरोक्ताः 'न हिंस्याद् भूतानि' इत्येवंलक्षणा अत्र प्रकृते पदार्थादयो |