________________
श्रीउपदे- एवमुक्तक्रमेण प्रतिसूत्रमेव यावन्ति सूत्राणि तान्यङ्गीकृत्येत्यर्थः । व्याख्यानं प्रायशो बुधजनेनावगतसमयरहस्येन आगमशपदे
साधुना कर्त्तव्यम् । कुत इत्याह-इतो व्याख्यानात् खलु निश्चयेन जायते यद्यस्मात् सम्यग्ज्ञानं त्वविपर्यस्तवोधः। यथा व्याख्या
-मध्यमतीर्थकृतां चत्वारि महाव्रतानि, प्रथमपश्चिमयोस्तु पञ्चेति । अत्र श्रौत एव शब्दार्थः-एतेषां चत्वारि महान- या सकल॥३७८॥
तानि प्राणातिपातमृषावादादत्तादानपरिग्रहविरमणरूपाणि, प्रथमचरमयोस्तु पञ्च महाव्रतानि सह मैथुनविरत्या इत्येवं सूत्रविषय| रूपः। परिग्रहविरत्यन्तर्गतैव मैथुन विरतिः, नापरिग्रहीता योषिद् उपभुज्यते इति परमार्थतो मध्यमानामपि पञ्चैवेति
त्वम्वाक्यार्थः । रागद्वेषावेव परिग्रहः, तद्भावनान्तरीयकत्वात् तदुपयोगस्येति महावाक्यार्थः । एवमेव निष्परिग्रहता, है अन्यथा तद्भावेऽपि न तद्दोषनिवृत्तिरित्यैदम्पर्यमिति। एवमन्यसूत्रेष्वपि पदार्थादयः सम्यग् उत्प्रेक्ष्य योजनीयाः॥८८१॥
साम्प्रतमुक्तोपदेशव्यतिक्रमे दोषमादर्शयन्नाहा६ इहरा अण्णयरगमा दिद्वेट्ठविरोहणाणविरहेण।अणभिनिविट्ठस्स सुयं इयरस्त उ मिच्छणाणंति॥८८२॥3 ___ इतरथा यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः । कथमित्याह-अन्यतरगमाद्, इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः संभवन्ति, यथोक्तं-"सबनईणं जा होज्ज वालुया सबउदहिज उदयं । एत्तो य अणंतगुणो अत्थो एगस्स सुत्तस्स ॥१॥" अतोऽन्यतरश्चासौ गमश्चान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, दृष्टेष्टविरोधज्ञानविरहेण दृष्टः प्रत्यक्षानुमानप्रमाणोपलब्धः, इष्टश्च ॥३७८॥ शास्त्रादिष्टोऽर्थस्तयोविरोधे वाधायां यज्ज्ञानमववोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थमेवेदं वस्त्वित्यकृताग्रहस्य
HOSAROSASSAGARGASAGAR