________________
श्रीउपदेशपदे
॥३९॥
ॐ गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः स्वपरतन्त्रवेदी पराशयवेदकः परहितनिरतो यातविशेषो गुरुः, विनेयसूत्र
तेनापि, न केवलं शिष्येण, विधिना विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः, सूत्रदानं श्रुतरत्तवितरणं विधिना "सु-8 दाने गुरुत्तत्थो खलु पढमो" इत्यादिना आवश्यकनियुक्तिनिरूपितेन क्रमेण, 'जोग्गाण चेव'त्ति योग्यानामेव विनयावनामादि- कर्तव्यता. गुणभाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि । यथोक्तम्-"विणओणएहिं पंजलिउडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥१॥" तथा, "उवहियजोगबो देसे काले परेण विणएण । चित्तण्णू अणुकूलो सीसो सम्म सुयं लहइ ॥२॥" कथमित्याह-सूत्रानुसारतः सूत्रस्य व्यवहारभाष्यस्यानुसारोऽनुवतनं तस्मात् । खलुरवधारणे । ततः सूनानुसारादेव तदतिक्रमेण सूत्रदाने तद्वेपित्वमेव कृतं स्यात् । यथोक्तम्-"तकारी स्यात् स नियमात्तद्वेपी चेति यो जडः। आगमार्थे तमुल्लञ्चय तत एव प्रवर्तते ॥१॥ आगमात्सर्व एवायं व्यवहारो व्यवस्थितः। तत्रापि हाठिको यस्तु हन्ताज्ञानां स शेखरः॥२॥" सूत्रानुसारश्चायम्-"तिवरिसपरियागस्स उ आचारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूयगडं नाम अंगं ति ॥ १॥ दसकप्पचवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ च्चिय दो अंगे अट्ठवासस्स ॥२॥ दसवासस्स विवाहो एक्कारसवासयस्स उ इमे उ। खुल्लियविमाणमाई अज्झयणा पंच नायथा ॥ ३ ॥ वारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उहाणसुयाइया चउरो॥४॥ चोदसवासस्स तहा आसीविसभावणं जिणा विति । पन्नरसवासगस्स य दिट्ठीविसभावर्ण तह य ॥५॥ सोलसवासाईसु य एगुत्तरवडिएसु जहसंखं । चारणभावण-महसुविणभावणा तेयगनिसग्गा ॥६॥