________________
टिभेदात् । यथोक्तम्-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । ऐकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥१॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥२॥ सर्वज्ञेन विरागेण जी
चाजीवादि भापितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिकी मता ॥३॥ आगमा लिनिन्नो देवा धोः सर्वे सदा 13ासमाः । इत्येपा कथ्यते बुद्धिः पुंसो वैनयिकी जिनैः॥ ४ ॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य
भोज्यं चर्मलवैरिव ॥ ५॥ अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः। दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम्॥६॥ दीनो निसर्गमिथ्यात्वस्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ॥७॥ देवो रागी यतिः सङ्गी धर्मः
प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः॥ ८॥” तदेव दुर्निवारवैधुर्याधायकतया ज्वरो रोगविशेषस्तपास्योदय उद्भवस्तत्र ज्ञेयम् । अयमत्र भावा-यथा ज्वरोदये शमनीयमप्यौपधं प्रयुज्यमानं न गुणाय, किन्तु महते दोपाय संपद्यते । एवं सूत्रमपि संसारव्याधिवाधानिरोधकारकतया परमौषधसममपि दुर्विनीतप्रकृतेरविधिप्रधानस्य च जीवस्य महति मिथ्यात्वज्वरोदये योजनीयम् । अन्यत्राप्युक्तम्-"सप्तप्रकारमिथ्यात्वमोहितेनेति जन्तुना। सर्व विपाकुलेनेव विपरीतं विलोक्यते ॥ १॥" तथा,-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोपायाभिनवोदीणे शमनीयमिव ज्वरे ॥२॥ पठन्नपि वचो जैन मिथ्यात्वं न विमुञ्चति । कुदृष्टिः पन्नगो दुग्धं पिवन्निव महाविषम् ॥३॥॥२८॥
इत्थं शिप्यविषयमुपदेशमभिधाय सांप्रतं तमेव गुरुगोचरमाहगुरुणावि सुत्तदाणं विहिणा जोग्गाण चेव कायवं। सुत्ताणुसारओ खलु सिद्धायरिया इहाहरणं ॥२९॥
AARAKARSAARCA