________________
श्रीउपदे
शपदे
विधिना मण्डलीप्रमार्जननिषद्याप्रदानकृतिकर्मकायोत्सर्गकरणादिना सिद्धान्तप्रसिद्धन, तथा गुरोः सूत्रार्थोभयप्र
सूत्रग्रहणदातुः सूरेविनयोऽभ्युत्थानासनप्रदानपाद परिधावनविश्रामणाकरणोचितान्नपानौषधादिसंपादनलक्षणश्चित्तानुवृत्तिरूपश्च
विधावन्वगृह्यते, अतस्तेन गुरुविनयेन, 'एवं चिय'त्ति एवमेव श्रेणिकमहाराजन्यायेनैव सूत्रपरिणतिगृह्यमाणागमग्रन्धानामात्मना यव्यतिरेसहकीभावो भवति संपद्यते । न हि सम्यगुपायः प्रयुक्तः स्वसाध्यमसाध्यैवोपरमं प्रतिपद्यते इतरथा त्वन्यथा पुनरवि
कभावना. धिना गुरोरविनयेन चेत्यर्थः सूत्रग्रहणं प्रस्तुतमेव विपर्ययफलं विपरीतसाध्यसाधकं मुणितव्यं विज्ञेयम् । सूत्रग्रहणफलं हि यथावस्थितोत्सर्गापवादशुद्धहेयोपादेयपदार्थसार्थपरिज्ञानं तदनुसारेण चरणकरणप्रवृत्तिश्च । अविधिना गुरुविनयविरहेण च दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्वितयम पि विपरीतं प्रजायत इति ॥ २७ ॥
विपर्ययफलमेव दृष्टान्तद्वारेण भावयति;समणीयंपि जरुदये दोसफलं चेव हंत सिद्धमिणं। एवं चिय सुत्तं पि हु मिच्छत्तजरोदए णेयं ॥२८॥ __ शमयत्युपशमयति शमनीयं पर्पटका दि तदपि, किंपुनरन्यत्तत्प्रकोपहेतुघृतादि, ज्वरोदये पित्तादिप्रकोपजन्ये ज्वरोद्भवे । किमित्याह-दोषफलं चैव सन्निपातादिमहारोगविकारहेतुरेव, 'हंत'त्ति सन्निहितभव्यसभ्यामन्त्रणम् , सिद्धं प्रत्यक्षादिप्रमाणप्रतिष्ठितमिदं पूर्वोक्तं वस्तु । इत्थं दृष्टान्तमुपदय दान्तिकयोजनामाहा एवं चिय'त्ति एवमेव 'सुत्तपिहु'त्ति सूत्रमप्युक्तलक्षणं मिथ्यात्वज्वरोदये। मिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु नित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरीततया श्रद्धानम् । तच्च सवधा, ऐकान्तिकसांशयिकवैनयिकपूर्वव्युगाह विपरीतरुचिनिसर्गमूढ६-४ ॥२८॥
POSTUSPARIUS