________________
यथोत्पयेन, वश्यानि येन च तदाचरितं जिनानाम् ॥ २ ॥ एषा आगमनीतिः प्रधानरूपा सारभावमागता वर्त्तते धर्मे साध्ये | इत्येष महावाक्यार्थविषयः पुनरवगन्तव्यः ॥ ८७५ ।। अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाहः
एवं पसत्यमेयं णियफलसंसाहगं तहा होइ । इय एस च्चिय सिट्ठा धम्मे इह अइदपजं तु ॥ ८७६ ॥ एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः । तथेति समुच्चये । भवत्येपैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहैदम्पर्यमिदं पुनर्ज्ञेयम् ॥ ८७६ ॥ तथा;| दाणपसंसाईहिं पाणवहाईओ उजुपयत्थत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥ ८७७ ॥
दानप्रशंसादिभिर्दान प्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निषेधे च क्षपणादिलाभान्तरायः । अत एव सूत्रकृतांगे पठ्यते - "जे उ दाणं पसंसंति वहमिछंति पाणिणं । जेणं पडिसेहंति वित्ति छेयं कुणंति ते ॥ १ ॥ 'उजुपयत्थोत्ति' अयं च ऋजुरेव पदार्थः । एनमेवाह - एतौ द्वावपि प्राणिवधकरणादिवृत्तिव्यविच्छेदौ पापावसमंजसो वर्त्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः - धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥ १ ॥ इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोजीवहिं सानुमतिः सम्पद्यते । तथा; तथाविधशास्त्र - | संस्कारात् स्वयमेव कैश्चिद्धर्मार्थिभिः प्रवर्त्यमानस्योक्तरूपस्य दानस्य " वीजं यथोपरे क्षिप्तं न फलाय प्रकल्पते । तथाऽ| पात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ॥ १ ॥ ” इत्यादिवचनैर्निषेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ॥ ८७७॥